________________
४३०
संगीतरनाकरः द्विरुग्राहस्ततः खण्डं यस्यां द्विर्भूरिदेकृति । तत्किचिदधिकं वारे द्वितीयेऽथ तृतीयकम् ॥ ९५६ ।। कियदीर्घ शुद्धकूटखण्डैः पाटैर्विमिश्रितैः ।
व्यस्तैः समस्तै रचितं ततो देंकृतिमत्पुनः ॥ ९५७ ।। स्यौतागजरादेरादावनतया तद्विदो वादयन्ति तदोहवणं वदन्ति । अत्र; यतौ केचित्सूरयः पाटानां नागबन्धादीनां रचनां नेच्छन्तीत्यनेन केचिदिच्छन्तीति गम्यते ॥ ९५२-९५५ ॥
इति यति:
___ (सु०) अथ वाद्यप्रबन्धानां साधारणं लक्षणमाह-प्राय इति । बाहुल्येन वाद्यप्रबन्धानामन्ते देंकार: देमितिशब्द: स्वेच्छोपनिबद्धाभ्यां कूटपाटस्य वर्णाभ्यां निबद्धः पाटाक्षर: समानाक्षरच्छन्दोभिव्यक्तिसमर्थस्ताल इति । यतिं लक्षयति-य इति । यो वाद्यखण्ड: बहुभि: विरामै: वाद्यते सा यतिः । सा जक्केति चोच्यते । सा च मण्ठादिसालगसूडे वादनीया । आदाविति । इयं यस्य कस्यापि वाद्यप्रबन्धस्य आदौ यदा यतिं वादयन्ति, तदैनां वाद्यज्ञा उट्टवणमिति वदन्ति ॥ ९५२-९५५ ।।
इति यति:
(क०) अनन्तरमोतां लक्षयति-द्विरुग्राह इत्यादि । यस्यामोतायामुग्राहो द्विदिवारं प्रयोज्यो भवति । तत उद्ग्राहानन्तरं भूरिदेकृति बहुलदेंकारं खण्डं मेलापकाख्यं खण्डं द्विभवेत । तत्खण्डं द्वितीये वारे किंचिदधिकं प्रथमवारापेक्षया। किंचिदधिकमित्यनेन द्वितीयं खण्डमपि द्विवारं कर्तव्यमित्यर्थः । द्वितीयवारे किंचिदाधिक्यं च कतिपयैः पाटाक्षरैः कर्तव्यं भवति । अथ तृतीयकं ध्रुवाख्यं खण्डम् । शुद्धकूटरवण्डैरिति पाटैरित्यस्य विशेषणम् । शुद्धाश्च कूटाश्च खण्डाश्चेति द्वन्द्वः । अत एव
Scanned by Gitarth Ganga Research Institute