________________
४२९
षष्ठो वाद्याध्यायः प्रायो वाद्यपबन्धानां देंकारोऽन्ते निधीयते । काभ्यांचित्कूटवर्णाभ्यां रचितोऽत्यन्तकोमलः ॥ ९५२ ॥ एकरूपाक्षरस्तालच्छन्दोभिव्यञ्जनोज्ज्वलः । यो वाद्यते वाद्यखण्डो विरामैर्वहुभिर्मुहुः ॥ ९५३ ॥ यतिजेक्का च सा तज्ज्ञैर्वाद्या मण्ठादिसालगे। आदौ वाद्यपबन्धस्य कस्याप्यङ्गतया यदा ॥ ९५४ ॥ तद्विदो वादयन्त्येतां वदन्त्युट्टवणं तदा । पाटानां रचनां केचिदत्र नेच्छन्ति सूरयः ॥ ९५५ ॥ गड्दगथों गक्कोंटे गड्दगथों गक्कोंटे गड्दगथों गकोटें ।
इति यतिः (सु०) इदानीं वाद्यप्रबन्धान निरूपयितुमाह-उदग्राहेति । उग्राहध्रुवकाभोगैः पूर्वोक्तगीतप्रवन्धवदुपनिबद्धाः वाधप्रबन्धा भवन्ति । ते च यत्यादयो पैसारान्ताः त्रिचत्वारिंशत् । शीतोदकस्थानगर्वगर्वनिर्णयाख्यास्त्रयः केवलोत्प्रेक्षाजनिता: लक्षणाभावात् अस्माभिरुपेक्षिताः ॥ -९४४-९५१ ॥
(क०) तत्रस्थयतिं लक्षयति-काभ्यांचिदिति । कूटवर्णाभ्यां पटहादिवाद्यसाधारणवर्णाः कूटवर्णा उच्यन्ते, तेषु याम्यां काम्यांचित् । रचित इति । मिथोयोगार्हाभ्यां ' तथोंग कथोटिंग ' इत्याद्यक्षराभ्यां निर्मितः। अत्यन्तकोमलः, बन्धकाठिन्यवर्जितः। एकरूपाक्षरः; उपक्रान्तवर्णानुसारेणैव समापितः। तालच्छन्दोभिव्यञ्जनोज्ज्वल इति । तालच्छन्दसोरभिव्यञ्जनेन प्रकाशमानः । बहुभिर्विरामै ; विच्छेदैरुपलक्षितः यो वाद्यखण्डः मुहुर्भद्यते सा यतिर्जक्का च । जक्केति यतेः संज्ञान्तरमित्यर्थः । सा तज्झैमण्ठादिसालग इति । सालगसूडस्थे मण्ठादौ गीते वाद्या वादनीया, रचनायां योजनीयेत्यर्थः । एतां यतिं यदा कस्यापि वाद्यप्रबन्ध
Scanned by Gitarth Ganga Research Institute