________________
४२६
संगीतरत्नाकर:
प्रयुज्यैकस्य खण्डस्य मानेनाथ दलद्वयम् । कुर्याद्दत्रयं तावद्यत्र सा त्रिगुणा भवेत् || ९३६ ॥ चतुरश्रत्रयश्रमिश्रयुक्तैर्वैषा क्रमादलैः ।
अन्ये त्वेककले ताले द्विकलेऽथ चतुष्कले || ९३७ ॥ क्रमाद्विरचितैः खण्डैस्त्रिगुणामभणन्बुधाः । एकं चचत्पुटे खण्डद्वयं चाचपुटे ततः ।। ९३८ ।। मिश्रे खण्डत्रयं यत्र त्रिगुणां तां जगुः परे । पदैश्चतुर्भिरस्यां स्यात्खण्डमेकं पदं पुनः ।। ९३९ ॥ मितं कलाभिरष्टाभिरित्युक्तं सूरिशाङ्गिणा । इति त्रिगुणा ( ९ ) पञ्चस्तो हस्तपाटैस्तशब्दान्विताभिधैः ॥ ९४० ॥ इति पञ्च हस्त : (१०)
पञ्चपाणिस्तु पाटैः स्यात्पाणिशब्दयुताभिधैः । इति पचपाणि: (११)
त्रिगुणा भवति । अन्ये त्विति । एककले द्विकले चतुष्कले च ताले क्रमात् कृतैः खण्डैस्त्रिगुणेत्यन्ये बुधा अभणन् । एवमिति । परे आचार्याः एकं खण्डं चच्चत्पुटे, खण्डद्वयं चाचपुटे, मिश्रताले खण्डत्रयं यस्यां तां त्रिगुणामवादिषुः । पदैरिति । अस्यां त्रिगुणायां चतुर्भिः पदैरेकं खण्डम् । पदं पुनरष्टकलेन मितमिति शार्ङ्गदेवेनोक्तं भवति || -९३५ - ९३९-॥
इति त्रिगुणा ( ९ )
( मु० ) पथ्वहस्त इति । पञ्चहस्तशब्दसहितैः हस्तपाटैः पञ्चहस्तो भवति इति पच हस्त: (१०) पचपाणिरिति । पाणिशब्दयुता मदिर्येषां
Scanned by Gitarth Ganga Research Institute