________________
४२७
षष्ठो वाद्याध्यायः कर्तरीपदवत्संज्ञैः पाटः स्यात्पञ्चकर्तरी ॥ १४१ ।।
इति पञ्चकर्तरी (१२) वर्धन्ते च हसन्ते चेन्मात्राश्चन्द्रकला इव । तालश्चन्द्रकलाख्यश्च तदा चन्द्रकला भवेत् ॥ १४२ ॥ द्वात्रिंशन्मात्रिकामन्ये पाहुश्चन्द्रकलामिमाम् । द्विमात्रा: पोडशकला वृद्धिहासयुजो विदुः ।। ९४३ ॥. तादृक्चतुःपष्टिकलां तामाहुर्दक्षिणे पथि ।
इति चन्द्रकला । इति त्रयोदश प्रायिकहौडुक्कवाद्यानि ।
इति पञ्चविंशतिरुभयवाद्यानि । उद्माहादिनिबद्धाः स्युरत्र गीतप्रबन्धवत् ॥ ९४४ ॥
वाद्यप्रबन्धास्त दलक्ष्माण्यभिदधेऽधुना । तथाविधैः पाटैः पञ्चपाणिर्भवति ; इति पञ्चपाणिः (११) कर्तरीति । कर्तरीपदयुक्ता संज्ञा येषां तथाविधैः कर्तर्यर्धकर्तरीविषमकर्तर्यादीनां तैस्तैः पाटैः पञ्चकर्तरी जायते ; इति पञ्चकर्तरी (१२) वर्धन्त इति । चन्द्रकलावत् मात्रा वर्धन्ते हसन्ते न्यूनीभवन्ति चेत् यस्यां, सा चन्द्रकलाख्यतालेनोपनिबद्धा चन्द्रकला (१३) अन्ये तु द्वात्रिंशन्मात्रोपनिबद्धा चन्द्रकलेत्याहुः । वृद्धिन्यूनतायुक्ताश्च षोडशकला: द्विमात्रास्ते अज्ञासिषुः । दक्षिणे मार्गे तादृशाः चतुःषष्टिकलाः यस्यां विद्यन्ते तां चन्द्रकलामाहुः ॥ -९४०-९४३- ।।
इति चन्द्रकला। इति त्रयोदश प्रायिकहौडुक्कवाद्यानि
इति पञ्चविंशतिरुभयवाद्यानि (क०) एवं वाद्यानि निरूप्य तत्प्रबन्धान् दर्शयितुमाह-उदाहा
Scanned by Gitarth Ganga Research Institute