SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः क्रमव्युत्क्रमतोऽथास्यास्तत्त्रैगुण्यमुदाहरेत् । प्रयुज्य त्रीणि खण्डानि प्रयुञ्जीतादिमद्वयम् ॥ ९३० ॥ ततश्चाद्यमिति प्रोक्तं खण्डे त्रैगुण्यमादिमे । इत्यादित्रिगुणा मध्ये त्रिगुणा तु द्विधा भवेत् ॥ ९३१ ॥ त्रैगुण्यान्मध्यखण्डस्य द्विःप्रकारातदुच्यते । खण्डत्रयं ततः खण्डद्वयमाद्यं प्रयुज्यते ॥ ९३२ ॥ ततो मध्यममित्येवं यद्वा खण्डद्वयात्परम् । अन्त्यद्वयं वादयित्वा प्रयोज्यं मध्यमं दलम् || ९३३ ॥ अथान्तस्त्रिगुणायां प्राक् खण्डत्रितयवादनम् । ततोऽन्तिमद्वयं खण्डमन्तिमं वादयेत्तथा ॥ ९३४ ॥ एवमष्टविधामाह त्रिगुणां भववल्लभः । अथवा चतुरश्रादौ कापि ताले दत्रयम् ॥ ९३५ ॥ ४२५ धात् पाटकमात् व्युत्क्रमतः सा त्रिगुणा पुनर्द्विविधा । अथेति । पूर्वोक्तं त्रैगुण्यं विशेषेणोदाहरामीति प्रतिजानीते । एवं प्रतिज्ञाय तदेव त्रैगुण्यं निरूपयति— प्रयुज्येति । खण्डत्रयं पूर्व गीत्वा, आद्यं खण्डद्वयं गायेत् । ततः पुनराद्यमेवमादित्रैगुण्येन आदिमत्रैगुण्यं भवति । मध्ये तु त्रिगुणा द्विविधा । मध्यखण्डस्य द्विप्रकारात् त्रैगुण्यात् खण्डत्रयमुच्यते । तदेव द्विविधत्रैगुण्यमाह—खण्डेति । पूर्व खण्डत्रयं गेयम् । तत आद्यं खण्डद्वयम् । ततो मध्यखण्डमित्येको भेदः । आ आदौ खण्डयम्, ततोऽन्त्यं खण्डद्वयं ततो मध्यमदलं खण्डमिति । अन्तस्त्रिगुणायाः त्रैगुण्यप्रकारमाह - अथान्त स्त्रिगुणायामिति । एवमष्टविधा त्रिगुणा भवन्ति ॥ ९१९-९३४ ॥ (सु० ) पक्षान्तरमाह — अथवेति । चञ्चत्पुटादौ यत्र कचन ताले खण्डनयं प्रयुज्य गीत्वा, एकस्वरमानेन खण्डद्वयं खण्डत्रयं यत्र क्रियते सा त्रिगुणा । अथवा चञ्चत्पुटेन चाचपुटेन वा मिश्रेस्तालैर्युक्तः क्रमात् त्रिभिः खण्डैरेषा 54 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy