________________
४२४
संगीतरनाकरः पाटः पाटाक्षरं यद्वा श्रूयते चेत्पुनः पुनः । अनुश्रवणिकां प्राह शंकरानुचरस्तदा ।। ९२५ ॥
इत्यनुश्रवणिका (६) द्वे चत्वारि भवन्त्यष्टौ यद्वा खण्डानि पोडश । देंकारादीनि यत्रासौ हस्तः स तु चतुर्विधः ॥ ९२६ ।। चतुरश्रयश्रमिश्रखण्डतालपयोगतः ।
___ इति हस्त: (७) तदर्धार्धादिभेदेन क्रमेण व्युत्क्रमेण वा ॥ ९२७ ॥ अखण्डतालाः पाटाश्वेयुज्यन्ते जोडणी तदा ।
___ इति जोडणी (८) खण्डानि त्रीणि यत्र स्युरेकैकं त्रिगुणं तथा ।। ९२८ ॥ वाद्यते यत्र सा प्रोक्ता त्रिगुणा त्रिविधा च सा ।
आदिमध्यान्तखण्डानां त्रैगुण्यात्सा पुनर्द्विधा ।। ९२९ ॥ (१) पाट इति । पाटो वा पाटावयवो वा यत्र पुनः पुनः श्रूयते, सा अनुश्रवणिका; इत्यनुश्रवणिका (६) द्वे इति । प्रथमं देंकारयुक्तानि द्वे खण्डे, चत्वारि वा खण्डानि, अष्टौ षोडश वा यत्र भवन्ति, तदा हस्त: ; स चतुर्विध:चतुरश्रः, व्यश्रः, मिश्र ; खण्ड इति । चतस्त्र अश्रयो यस्य स चतुरश्रः; एकः चतुरश्रतालेन, अपरस्त्र्यश्रेण, कश्चिन्मिश्रेण, अन्य: खण्डेनेति ; इति हस्तः (७) तदर्धेति । खण्डताल विहाय अन्यैस्तालेरुपनिबद्धाः पाटा अर्धरूपाः, अर्धार्धरूपा वा क्रमव्युत्क्रमाभ्यां यत्र संयोगमाप्नुवन्ति, तदा जोडणी ; इति जोडणी (८) खण्डानीति । यत्र त्रीणि खण्डानि भवन्ति । एकैकं खण्डं त्रिगुणं वा यस्यां सा त्रिगुणा । सा च त्रिप्रकारा-आदिखण्डस्य त्रैगुण्यादेका; मध्यखण्डस्य त्रैगुण्यात् द्वितीया ; अन्त्यखण्डस्य त्रैगुण्यात् तृतोयेति । त्रिवि
Scanned by Gitarth Ganga Research Institute