________________
षष्ठो वाद्याध्यायः
अर्ध वार्घद्वयं वल्ल्यां स्वैः स्वैः पाटैरयोजनम् । कृतं संयोजनं वा चेद्रल्लिपाटस्तदा भवेत् ॥ ९२० ॥ इति वल्लिपाट: (२)
निवद्धं वादयेदाद्यं कारार्ध पुरातनम् |
अनिबद्धं स्वबुद्धया कराभ्यां वादयेदथ ।। ९२१ ॥ वाद्येनाद्यं निबद्धं चेत्पुनर्धत्ता तदोच्यते ।
इति घत्ता (३)
योगेनैकेन निष्पन्नस्तदुपाङ्गभवोऽपरः ।। ९२२ ॥ पाटोऽन्योन्याङ्गयोगस्तैः संमिश्रः पाटपूरणैः । नानावाद्योद्भवैः पाटैर्भेदत्रेधा लत्रयात् ॥ ९२३ ॥ इति भेद: ( ४ )
यामुपक्रमे मध्येऽन्तेऽथ वाद्यैरनेकधा । सर्ववाद्यानि वाद्यन्ते जगदुस्तां झडप्पणीम् ॥ ९२४ ॥ इति झडप्पणी (५)
४२३
साच्चालनात् त्रिविधवल्लिर्जायते ; इति वल्लि : (१) अर्ध वेति । वल्ल्या अर्धमर्धद्वयं वा स्वैः स्वैः पाटै रहितं सहितं वा यदि स्यात्, तदा वल्लिपाट: ; इति वल्लिपाट: (२) निबद्धमिति । झेंकारास्यार्धमाद्यं वादयेत् । अथ पुरातनमनिबद्धं स्वबुद्धया अर्ध करद्वयेन वादयेत् । पुनराद्यं निबद्धं वाद्येन वादयति चेत्, तदा घत्ता ; इति घत्ता (३) योगेनेति । एकेन योगेन निष्पन्न:, यश्च योग उपाङ्गाज्जायते पाटः, यश्चान्योन्याङ्गैर्जातैः पाटपूरणैः मिश्रितैः पाटैः युक्तो भेद:, स च लयस्य त्रैविध्यात् त्रिविधो भेद: ; इति भेदः (४) यस्यामिति । आदिमध्यावसानेषु वादनैरनेकविधानि वाद्यानि यस्यां वाद्यन्ते सा झडप्पणी ; इति झडप्पणी
Scanned by Gitarth Ganga Research Institute