________________
४२२
संगीतरत्नाकर:
उच्यते वादनो दण्ड : कोणः कुडुव इत्यपि । इति कुडुवचारणा (९)
जाता हस्तजपाटैस्तु केवलैः करचरणा ।। ९१६ ।। इति कचारणा (१०)
एकैको य: करद्वन्द्वान्मृदुदक्षिणपाणिकात् । जायते तादृशैः पाटैर्दण्डहस्तोऽभिधीयते ।। ९१७ ।। इति दण्डहस्त : (११)
यः करेण कराभ्यां वा कृतैः पाटैर्निरन्तरैः । निरन्तरघनध्वानः स स्याद्धनरवाभिधः ॥ ९९८ ॥
इति घनरव: (१२)
इति द्वादश पटहादिजातानि वाद्यानि ।
•
स्कन्धेन मणिबन्धेन कुडुवेन च चालनात् । सोल्लासाज्जायते वल्लिस्त्रिविधा पटहादिषु ।। ९९९ ।। इति वल्लि : (१)
इति कुडुवचारणा (९) हस्तोद्भवैः केवलैः पाटैः करचारणा; इति करचारणा (१०) मृदुः शिथिल: दक्षिणपाणिः यस्मिन् एवंविधात् करद्वयात् य एकैकः पाट उत्पद्यते, तथाविधै: बहुभिः पाटैर्दण्डहस्त: ; इति दण्डहस्त: (११) य इति । एकेन हस्तेन, हस्तद्वयेन वा कृतैर्निरन्तरैर्मिलितैः पाटैरनवरतनिबिडध्वनिः घनरवः ; इति घनरव: ( १२ ) ॥ -९०९-९१८ ॥
इति द्वादश पटहादिजातानि वाद्यानि
ܕ
(सु० ) वल्ल्याद्यानि त्रयोदश प्रायिकहौडुक्कवाद्यानि लक्षयति-स्कन्धेनेति । स्कन्धेनांसेन मणिबन्धेन करपूर्वभागेन कुड्डुवेन कोणेन च कृतात् सोल्ला
Scanned by Gitarth Ganga Research Institute