SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४२२ संगीतरत्नाकर: उच्यते वादनो दण्ड : कोणः कुडुव इत्यपि । इति कुडुवचारणा (९) जाता हस्तजपाटैस्तु केवलैः करचरणा ।। ९१६ ।। इति कचारणा (१०) एकैको य: करद्वन्द्वान्मृदुदक्षिणपाणिकात् । जायते तादृशैः पाटैर्दण्डहस्तोऽभिधीयते ।। ९१७ ।। इति दण्डहस्त : (११) यः करेण कराभ्यां वा कृतैः पाटैर्निरन्तरैः । निरन्तरघनध्वानः स स्याद्धनरवाभिधः ॥ ९९८ ॥ इति घनरव: (१२) इति द्वादश पटहादिजातानि वाद्यानि । • स्कन्धेन मणिबन्धेन कुडुवेन च चालनात् । सोल्लासाज्जायते वल्लिस्त्रिविधा पटहादिषु ।। ९९९ ।। इति वल्लि : (१) इति कुडुवचारणा (९) हस्तोद्भवैः केवलैः पाटैः करचारणा; इति करचारणा (१०) मृदुः शिथिल: दक्षिणपाणिः यस्मिन् एवंविधात् करद्वयात् य एकैकः पाट उत्पद्यते, तथाविधै: बहुभिः पाटैर्दण्डहस्त: ; इति दण्डहस्त: (११) य इति । एकेन हस्तेन, हस्तद्वयेन वा कृतैर्निरन्तरैर्मिलितैः पाटैरनवरतनिबिडध्वनिः घनरवः ; इति घनरव: ( १२ ) ॥ -९०९-९१८ ॥ इति द्वादश पटहादिजातानि वाद्यानि ܕ (सु० ) वल्ल्याद्यानि त्रयोदश प्रायिकहौडुक्कवाद्यानि लक्षयति-स्कन्धेनेति । स्कन्धेनांसेन मणिबन्धेन करपूर्वभागेन कुड्डुवेन कोणेन च कृतात् सोल्ला Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy