________________
४२१
षष्ठो वाद्याध्यायः कारबहुलं वायं कीर्तयन्ति कुचुम्बिणीम् ॥ ९११ ॥
इति कुचुम्बिणी (४) बोल्लावण्येव पाणिभ्यां क्रमाद्वा युगपत्कृतैः । भूरिभिः संभृता पाश्चारुश्रवणिका भवेत् ॥ ९१२ ।। शुद्धैश्चित्रः क्रमात्पाटैः शुद्धा चित्रेति सा द्विधा ।
इति चारुश्रवणिका (५) अलग्नः कुण्डलीस्पर्श विना कोणप्रहारतः ॥ ९१३ ॥
इत्यलग्नः (६) कर्तरी समपाणिश्चावघटो यत्र तु क्रमात् । सोक्ता परिश्रवणिका श्रीयज्ञपुरमरिणा ॥ ९१४ ॥
इति परिश्रवणिका (७) समपहारो युगपत्करद्वन्द्वेन घाततः ।
__ इति समप्रहार: (८) कुडुबोद्भवपाटाभ्यां वाद्यं कुडुवचारणा ॥ ९१५ ॥
यूथैश्वारुप्रवणिका; सा द्विप्रकारा-शुद्धा, चित्रेति । शुद्धैः पाटैविरचिता शुद्धा, चित्रैः पाटैविरचिता चित्रेति ; इति चारुश्रवणिका (५) कुण्डलीमस्पृश्य कोणप्रहारे कृते अलग्नः ; इत्यलमः (६) पूर्वोक्तकर्तरीसमपाण्यवघटाः यत्र क्रमेण क्रियन्ते सा परिश्रवणिका ; इति परिश्रवणिका (७) समकालं करद्वयेन घाते कृते सति समप्रहारः ; इति समप्रहारः (८) कुडुवाजाताभ्यां पाटाभ्यां कुडुवचारणा । कुडुवश्च वादनदण्डः, कोण इति चोच्यते ।
Scanned by Gitarth Ganga Research Institute