________________
४२०
संगीतरत्नाकरः मण्डले चाल्यते यत्र पोचुश्चल्लावणीममूम् ।। ९०९ ।।
इति चल्लावणी (२) वामेन तलहस्तेन दक्षिणेन तु पाणिना । लुलितेन सकोणेन तादनादुडुवो भवेत् ।। ९१० ।।
इत्युडुवः (३) उद्दलीपिहिते वक्त्रे हस्तस्वस्तिकताडनात् ।
(सु०) तत्र बोल्लावण्या लक्षणमाह-मादिमध्येति । आवं खण्डम् , आदौ मध्ये, अवसाने च देमिति शब्दप्रचुर भवति । द्वितीयमपि तादृशमेव यत्र पृथग्वाद्यते सा बोलावणी। अस्याः बोलावण्याः पटहादन्यस्मिन् वाद्ये योजनाया संबन्ध: स्यात् । तामेव योजनामाह-झेंकृतिरिति । हुडुक्कायां इह बोल्लावण्यां झेंकारदेंकारः पाट: । डक्कायां मर्दले च थोमिति । त्रिवल्ल्यां दोमिति भवति । करटायां तुं टेमिति । इयं प्रधानाक्षरयोजना ज्ञातव्या । अनेन च प्रकारेण अन्येष्वपि वाद्येषूहनीयम् ॥ -९०५-९०८-॥
इति बोल्लावणी (१)
(क०) चल्लावण्यादीनां लक्षणानि ग्रन्थत एवावगन्तव्यानि ।। -९०९-९१८ ॥
___ (सु०) चल्लावण्यादीनां लक्षणमाह-मण्डल इति । यत्र मण्डले प्रदेशे चालन क्रियते अमूमेतां चलावणीत्यवादिषुः ; इति चल्लावणी (२) वामेनेति। तलहस्तरूपेण वामहस्तेन कोणसहितेन पूर्वोक्तललितरूपेण दक्षिणपाणिना कृतताडनादुडुवः; इत्युडुवः (३) मुखे पूर्वोक्तया उद्दल्या पिहिते सति नृत्ताध्याये वक्ष्यमाणहस्तस्वस्तिकेन ताडने कृते सति खुंकारप्रचुरं वाचं कुचुम्बिणी ; इति कुचुम्बिणी (४) पूर्वोक्तबोलावण्येव क्रमेण समकरालहस्तद्वयकृतैः बहुभिर्वाद्य
Scanned by Gitarth Ganga Research Institute