SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः आद्यखण्डं द्वितीयं च तादृशं वाद्यते पृथक् । यत्र बोल्लावणी सोक्ता पटहे वाद्यवेदिभिः ।। ९०६॥ यथा-३ थों३ दें३ । अस्याः खण्डद्वयं वाद्यान्तरे स्याद्योजनान्वितम् । झेंकृतिकृतिस्थाने हुडुक्कायां भवेदिह ।। ९०७ ।। डक्कायां मर्दले चैव थों त्रिवल्लयां तु दों भवेत् । करटायां तु टेमेव प्रधानाक्षरयोजना ।। ९०८ ॥ वाद्यान्तरेष्वपि प्राज्ञैः प्रोह्यतामनया दिशा । इति बोल्लावणी क्कादौ बोलावणी स्यादित्यर्थः । तदेव केषुचिद्वाद्येषु दर्शयति-झंकृतिरित्यादि । इह, खण्डद्वये ; देकृतिस्थाने, पटहापेक्षया आदिमध्यावसानेषु प्रयुक्तस्य देंकारस्य प्रसङ्गे, झेंकृतिः, झेंकारः प्रयुक्तश्चेत् ; तदा हुडुक्कायां बोल्लावणी भवेत् । हुडुक्कायां झेंकारो भवति । थोमित्यादिमध्यावसानेषु प्रयुज्यते चेत् ; तदा डक्कायां भवति । थोमिति तु प्रयुज्यते चेत् ; तदा मर्दले भवति । दोमिति त्रिवल्लयां भवेत् । टेमित्येव तु करटायां भवेत् । एवं प्रधानाक्षरयोजनाद्वाद्यान्तरेष्वपि ढक्कादिष्वपि । अनया दिशा मोहतामिति । तत्तद्वाद्योक्तप्रधानाक्षराणां यथायोगं कादिभिः षोडशवर्णैः सह योजनात्तत्तहोल्लावणी कार्यत्यर्थः । ननु प्रधानाक्षरस्यैकत्वादितरेषां बहुत्वात्कथं वाद्यान्तरप्रतीतिरिति चेदुच्यते । यथा षड्जादिष्वेकतमस्यांशत्वेनेतरेषां बहुत्वेऽप्यंशस्यैव तत्र प्रधानत्वेन प्रयोगबाहुल्यादितरेषां तद्रागरूषितत्वे सति रागान्तरप्रतीतिः, तद्वदत्रापि देंकारादिभिः प्रधानाक्षरैरितरेषां तत्र तत्र योगात्तेषां तत्तद्ध्वनिरूषितत्वे सति तत्तद्वाद्यप्रतीतिरिति न किंचिदेतत् ॥ -९०५-९०८- ॥ इति बोलावणी Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy