________________
४१६
संगीतरनाकरः तलपहारो वलितभेदितो भ्रमरो यथा ।
दं थं दें झेंद्र४ खुखुंधुरि दयोंगि।
इति भ्रमरः (१) संकरात्करपाटानां कुश्चितः कथितो यथा ॥ ८९५ ॥ खुखुंधरि२ धरिगिगिड२ दन्हें२ खुंखं दन्हें२ गिरिगिडिदर
दत्योंगि थोगिर। इति कुश्चित: (२) इति चित्रपाटद्वयम्
इत्यष्टाशीतिहस्तपाटलक्षणम् । पटहस्य हुडुक्कायाः पञ्च सञ्चान्ब्रुवेऽधुना ।
स्कन्धकूपेरयोस्तद्वदगुष्ठमणिबन्धयोः ॥ ८९६ ॥ उत्थितः सचाख्यः पाटः, इति सञ्चः (१) करसञ्चेनाङ्गुष्ठघातेन चोत्पन्नो विच्छुरितः, इति विच्छुरितः (२) ॥ -८९३-८९४ ॥
___ इत्यलमपाटद्वयम् (क०) अथ चित्रपाटस्य भेदद्वयं दर्शयति-तलमहार इत्यादि ॥ ८९५ ॥
(सु०) चित्रपाटयोर्लक्षणमाह-तलेति । पूर्वोक्ततलप्रहारेण, पूर्वोक्तवलितेन च मिश्रितो भ्रमरः, इति भ्रमरः (१) अन्येषां करपाटानां संकरात् कुञ्चितः, इति कुञ्चित: (२) ॥ ८९५ ॥
इति चित्रपाटद्वयम्
इत्यष्टाशीतिहस्तपाटलक्षणम् (क०) अथ पञ्च सञ्चान् लक्षयति-पदहस्येत्यादि॥८९६-८९९॥
Scanned by Gitarth Ganga Research Institute