SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः वामस्य चरणस्यापि कम्पः सञ्चोऽभिधीयते । श्रेष्ठः पाटहिकः सञ्चादङ्गुष्ठमणिबन्धयोः ॥ ८९७ ॥ स्कन्धकूपरसञ्चात्तु नीचः पटहवादकः । वरो हौड्डुक्किकोअष्टकूपरस्कन्धसञ्चतः ।। ८९८ ॥ सञ्चाभ्यां मणिबन्धोत्थकूपराभ्यां तु मध्यमः । असौ वामाघिसञ्चेन वादनादधमो भवेत् ॥ ८९९ ।। इति पश्चसञ्चलक्षणम् पाटविन्यासभेदाः स्युर्वाद्यानि पटहादिषु । बोलावणी च चल्लावण्युडुवश्च कुचुम्बिणी ॥ ९०० ॥ (सु०) पञ्च सञ्चान् प्रतिज्ञाय कथयति-पटहस्येति । यस्तु पटहस्य हुडुक्कायाश्च पाटान् जानाति, तत्संबन्धिनः पञ्च सञ्चान् अधुना ब्रुवे कथयामि । सञ्चस्य लक्षणमाह-स्कन्धेति । स्कन्धकूर्परागुष्टमणिबन्धवामचरणानां कम्प: सश्च इत्युच्यते । पाटहिकः पटहवादकः, अङ्गुष्टमणिबन्धयो: सञ्चात् श्रेष्ठः । स एव स्कन्धकूपराभ्यां नीच: । हौडुक्किकः हुडुक्कावादक: अङ्गुष्ठकूर्परस्कन्धानां सञ्चात् वरो श्रेष्ठः । स एव मणिबन्धोत्थकूर्पराभ्यां मध्यमः । वामाघिसञ्चेनासौ अधम इति ॥ ८९६-८९९ ॥ इति पञ्चसंचलक्षणम् (क०) अथ पञ्चविंशतिपटहादिजातिसाधारणानि वाद्यान्युद्दिश्य लक्षयितुं तेषां सामान्यलक्षणं तावदाह-पाटविन्यासभेदाः स्युरिति । पाटाः पूर्वोक्ता अष्टाशीतिसंख्याः ; तेषां विन्यासभेदाः । पाटानां यथायोगं योजनावशाद्वाद्यानि भवन्तीत्यर्थः । तत्र पटहादिसाधारणानि द्वादश वाद्यान्युद्दिशति-बोल्लावणीत्यादि ॥ ९००, ९०१- ॥ 53 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy