________________
१४
संगीतरत्नाकरः
आद्यवर्णैः पातकला निःशङ्कः पर्यभाषत । चच्चत्पुटे त्वेककले संशताशं यथाक्रमम् ॥ २७॥ S SIS संश ता शं । यद्वा शताशता तालः शम्या वा द्विर्भवेदिह । SSS SSS शता श ता; ताश ताश । आसारितादौ शम्यादिस्तालादिः पाणिकादिषु ।। २८ ।।
इत्येककलचच्चत्पुटकलाविधिः । (मु०) एताविति । एतौ; उद्घट्टकसंपक्केष्टाकौ । स्वयोनित् द्विकलचतुष्कलौ च कार्यो । तत: चाचपुटवत् पड़ गुरुः द्विकलोट्टकः ; द्वादशगुरुः चतुष्कलोट्टकः । घपितापुत्रकवत् द्वादशगुरुः द्विकलसंपक्वेष्टाकश्च ; विंशतिगुरु: चतुष्कल: संपक्केष्टाकः । मतान्तरमाह--अन्यदिति । चाचपुटे अन्य भेदत्रयं विद्यते; मुनेः भरतस्य मतात् । तदेव लक्षयति-चतुष्कलादिति । चतुष्कलद्वादशगुरोः चाचपुटात् पुनः पुनः द्वैगुण्येन घण्णवतिपर्यन्तं भेदत्रयं भवति । ततश्चतुर्विशतिगुरुरेको भेद: । अष्टाचत्वारिंशद्गुरुरेकः । षण्णवतिगुरुरेक इति । ननु पितापुत्रकात् प्रथमस्येको भेदः, उच्यते ; चतुष्कले चतुर्गुरुरेव पादभाग: । अत्र पादभागनियमो नास्तीति भेदः । अथवा पातकलायोगेन भेद इति संतोष्टव्यम् । एतेषां तालानां पातकलायोगफलमाहएषामिति । पाता:, सशब्दतालक्रिया ध्रुवादयः ; कलाः, निःशब्दतालक्रिया आवापादयः ; ताभ्यां तालेन योगनियमेन संबन्धः ; तम् । श्रेयये धर्माय कथयामः ॥ २५, २६ ॥
(क०) संशताशमिति । द्वन्द्वैकवद्भावः । आसारितादाविति । आसारितं नाम मद्रकादिप्वेकं गीतम् । पाणिकमपि तथा ॥ २७, २८ ॥
(सु०) आद्यवर्णैरिति । पातकाला आद्यवगैरेव ज्ञातव्या इति निःशङ्कः शार्ङ्गदेव: पर्यभाषत परिभाषामकार्षीत् । चञ्चत्पुट इति । एककले चच्चत्पुटे
Scanned by Gitarth Ganga Research Institute