________________
४०९
षष्ठो वाद्याध्यायः लोलो व्यवहिताङ्गुष्ठो दक्षिणो यस्य साधकः । वामश्चोच्छलितो हस्तमुल्लोलं तं प्रचक्षते ॥ ८७१॥ अङ्गुष्ठमध्यमन्येऽत्र ब्रुवते दक्षिणं करम् । पुटमध्ये दक्षिणेन साङ्गुष्ठेन हतिं परे ।। ८७२ ॥
झेयां झेंथां थांथां झें ।
इति लोलः (१) व्यङ्गुष्ठो दक्षिणो हस्तः पुटे चेन्मुहुरुल्लसेत् । खपुटं पीडयेद्वामस्तदा पाण्यन्तरो भवेत् ॥ ८७३ ॥ विश्लिष्टाङ्गुलिसंचारमगुष्ठार्धाधताडनम् । पाण्यन्तरस्य जनकं केचिदाचक्षते बुधाः ॥ ८७४ ॥
संज्ञको द्वौ करौ एकं पुटं हत्वा नृत्ताध्याये वक्ष्यमाणस्वस्तिकावन्ते भवेताम् , इति स्वस्तिकः (२०) करतलाभ्यां समकालं पुटे हन्यमाने समग्रहः (२१) इह केचित् अगुष्ठाङ्गुलिवर्जितं तलमाहुः ॥ ८५५-८७० ॥
इत्येकविंशतिहस्तपाटा:
(क०) अथ प्रायिकहौडुक्कान् षोडश हस्तापाटान् दर्शयति-लोलो व्यवहिताङ्गुष्ठ इत्यादि ॥ ८७१-८८६ ॥
(सु०) षोडश प्रायिकहौडुक्कपाटान् लक्षयति-लोल इति । दक्षिणो हस्तो व्यवहिताङ्गुष्ठः, वामहस्तश्चोच्छलितः, यस्य साधकः यं साधयति स लोलः । अन्ये त्वाचार्याः अङ्गुष्ठो मध्यस्थो यस्य तथाविधं दक्षिणहस्तमाहुः । केचिदङ्गुष्ठसहितेन दक्षिणहस्तेन हतिमाघातमाहु: (१) अङ्गुष्ठेन विना दक्षिणो हस्तः पुटमध्ये पुनरुल्लासं प्राप्नोति, वामहस्तश्च स्वपुटं पीडयति चेत्, तदा पाण्यन्तरः । केचिद् विरलागुलिसंचारो यस्मिन् , तथा विश्लिष्टाश
52
Scanned by Gitarth Ganga Research Institute