________________
४०८
संगीतरत्नाकरः सपपाणेस्तु विरलाङ्गुलित्वे पाणिहस्तकः ।
तरगिड दरगिड ।
इति पाणिहस्तकः (१७) नागबन्धो विपर्यासात्पुटयोः करघाततः ।। ८६७ ।। प्रत्येकं वा पुटद्वन्द्वे कराभ्यां ताडनादयम् ।
इति नागबन्धः (१८) तलेन हत्वा प्रहरेत्साङ्गुष्ठाङ्गुलिभिः क्रमात् ॥ ८६८ ।। पुटमेकैकपाणिश्चेद्भवेदवघटस्तदा । ततगिड गिड दगिटन गिनगिननगि ।
इत्यवघट: (१९) पुटमेकं निहन्यातां स्वस्तिके स्वस्तिकौ करौ ॥ ८६९ ।।
तकिट तकिटतकि।
इति स्वस्तिकः (२०) समं करतलाभ्यां तु पुटघातात्समग्रहः । तले केचिदिह पाहुरङ्गुष्ठागुलिवर्जिते ॥ ८७० ॥
तकिट किटतक । इति समग्रहः (२१)
इत्येकविंशतिहस्तपाटाः। दक्षिगहस्तो वामतः, वामो दक्षिणत: तदा विषमपाणि: (१६) समपणिर्विरलागुलित्वे पाणिहस्तकः (१७) करयोविपर्यासात् कराघातात्पुटयोः प्रत्येक पुटद्वयताडनादयं नागबन्धः (१८) एकैकेन हस्ततलेन घातं कृत्वा अङ्गुष्ठसहिताङ्गुलीभिः क्रमात् यदा प्रहारं करोति तदा अवघट: (१९) स्वस्तिक
Scanned by Gitarth Ganga Research Institute