________________
षष्ठो वाद्याध्यायः प्रचालनाद्वामहस्ताङ्गुलीनां कर्तरी मता ।। ८६३ ॥ टिरि टिरि टिरि किटयों दिगिदा तिरि टिरि किट झें तकिकिट ।
इति कर्तरी (१२) कर्तरीभ्यां समं घातः कराभ्यां समकर्तरी । झिनकिट कनकिट किटझेंथों दिगिद तिरिटि तिरिटिकि ।
___ इति समकर्तरी (१३) क्रमेण ताडनाद् द्वाभ्यां भवंद्विपमकर्तरी ।। ८६४ ।। टिरि टिरि थों दिगिद टिरि टिरि किद ।
इति विषमकर्तरी (१४) अङ्गुष्ठाङ्गुलिसंघातौ हम्तयोर्युगपद्यदा । पीडयेतां पुटद्वन्द्वं समपाणिस्तदा भवेत् ॥ ८६५ ।।
दां गिड गिड दांदा ।
इति समपाणि: (१५) व्यत्ययावयापृतौ हस्तौ साङ्गुष्टाङ्गुलिभिः क्रमात । यस्मिन्विपमपाणि तं ब्रूने शंकरवल्लभः ।। ८६६ ॥
दांदा गिड गिड दादां। इति विषमपाणि: (१६)
(१०) एकस्य करस्याप्रेग ताडनेन अर्धपाणि: (११) वामहस्तस्य अङ्गुलिचालनात् कर्तरी (१२) कर्तरीद्वयेन समकालं घातात् समकर्तरी (१३) द्वाभ्यां कराभ्यां क्रमेण ताडने विषमकर्तरी (१४) पुटद्वयं पीडयित्वा हस्तयोरङ्गुष्टाङ्गुलिघाते समपाणिः (१५) द्वौ हस्तौ अङ्गुष्टसहिताभिरगुलीभि: व्यत्ययात् व्यापृतौ,
Scanned by Gitarth Ganga Research Institute