________________
४०६
संगीतरत्नाकरः ऊर्ध्वघातद्वयं कृत्वा तलहस्तेन हन्यते । यदा वाद्यपुटद्वन्द्वं स्थूलहस्तस्तदोदितः ।। ८६१ ॥
खुखुंद खुंटुंद ।
इति स्थूलहस्त: (८) अर्धापाणिरर्धाभ्यां करयोस्ताडनाद्भवेत् ।
खुदां खुदां ।
इत्यर्धार्धपाणिः (९) वादनं नखराग्रेण पार्श्वपाणिरुदाहृतः ॥ ८६२ ॥
थरगिड दागिड दगिड दगिड ।
___ इति पार्श्वपाणि: (१०) अर्धपाणिर्भवेदेककराग्रकृतताडनात् ।
दगिड दगिड दरगिड दरगिड ।
इत्यर्धपाणिः (११) (क०) वायपुटद्वन्द्वमिति । वाद्यस्य पटहादेः पुटद्वन्द्वं वामदक्षिणमुखद्वयम् ॥ ८६१-८७० ॥ घातेन वा यत्र जायते स पाण्यन्तरनिकुटकः (३) पताकाख्येन वक्ष्यमागहस्तेन ऊर्बप्रदेशे घातं कृत्वा सर्वाङ्गुलीकृतरेफहस्तेन द्वौ घातौ यत्र क्रियते असौ दण्डस्त: (४) क्रभेण रेफस्योर्ध्वहस्तस्य च करणे पिण्डहस्त: (५) रेफाभ्यां हस्ताभ्यामूर्ध्वघातद्वयं पाटनिष्पत्त्यर्थ पृथक् क्रियते चेत् तदा युगहस्त: (६) दक्षिणहस्तेन तीव्रवातात् ऊर्ध्वहस्त: (७) ऊर्ध्व घातद्वयं विधाय तलहस्तेन यदा वाद्यस्य फुटद्वयं हन्यते तदा स्थूलहस्त: (८) करयोरर्धाभ्यां ताडने कृते सति अर्धाधपाणि: (९) नखाग्रेण वादनं पार्श्वपाणि:
Scanned by Gitarth Ganga Research Institute