________________
षष्ठो वाद्याध्यायः
ऊर्ध्वघातं पताकेन कृत्वैकमथ रेफतः ।
कृतौ यत्रोर्ध्वघातौ द्वौ दण्डस्तो भवेदसौ || ८५८ || दातरिकिट दां खरिखरिदां ।
इति दण्डहस्त: ( ४ )
क्रमाद्रेफोर्ध्वहस्ताभ्यां पिण्डहस्तः प्रजायते ।
परिक थरिकटझें |
इति पिण्डस्त : ( ५ )
रेफात्मभ्यां कराभ्यां चेदूर्ध्वघातद्वयं पृथक् ।। ८५९ ।। क्रियते पाटनिष्पत्यै युगहस्तस्तदा भवेत् ।
दांदां ।
इति युगहस्त: ( ६ )
ऊर्ध्वहस्तो दक्षिणेन तलेनोद्गाढघातकः || ८६० । दरगड दांदां । इत्यूर्ध्वस्त: (७)
४०५
इत्यलपद्महस्तस्य लक्षणं वक्ष्यति । तस्य नखराघातादिव्यावृत्तिकरणेन कृतादित्यर्थः । उत्तरत्रापि वादनोपयोगित्वेनोत्तानां हस्तानां लक्षणानि नृत्ताध्यायत एवावगन्तव्यानि ॥ ८५५-८६० ॥
(सु०) उत्फुल्लादीनामेकोनविंशतिहस्तपाटान् लक्षयति - उत्फुल्ल इति । अलपद्मसंज्ञिकस्य हस्तस्य नृत्ताध्याये वक्ष्यमाणस्य नखावातात् उत्फुल्लः (१) प्रसारितोऽङ्गुष्ठो यस्मिन् तथाविधस्य वक्ष्यमाणशुकतुण्डाख्यहस्तस्य विरलाभिरङ्गुलीभिः क्रमेण यदा वाद्यते तदा खरकः (२) दक्षिणहस्ते तर्जन्यङ्गुष्ठया ताडितवामहस्तस्य च पूवोक्तरेफवत् कमाघातेन व्युत्क्रमा
Scanned by Gitarth Ganga Research Institute