________________
षष्ठो वाद्याध्यायः
कनिष्ठाङ्गुष्ठसंयोगाच्छेषाङ्गुलिविवर्तनात् ।। ८५१ ।। "कोणाहतो हस्तपाटः शार्ङ्गदेवोदितो यथा ।
खुखुंदरि खुखुंदर करगिड करगिड | इति कोणाहत : (१)
सर्वाङ्गुल्यप्रघातश्च सर्वाङ्गुलविवर्तनम् ।। ८५२ ।। यस्य निष्पादकं सोऽत्र संभ्रान्तः कथितो यथा । दरगड दरगड गिरिगिडद दाणकिट मटटकु | इति संभ्रान्तः (२)
चलनं मणिबन्धस्य पताकस्याथ कम्पनम् ।। ८५३ ॥ पादकम्पोsथ जनको यस्यासौ विपमो यथा ।
दहें दहें खुखुंद खुखुं दहें ततकि ततकि । इति विषमः (३)
पूर्वलक्ष्मविपर्यासाद्भवेदर्घसमो यथा ॥ ८५४ ॥ ददगिद गिगिरिक्टिदगियों थों गियोंगद । इत्यर्धसमः (४)
इति नन्दिकेश्वरोताश्चत्वारो हस्तपाटाः ।
४०३
(क) नन्दिकेश्वरोक्तानां पाटानां स्वरूपं वादनप्रकारपूर्वकं दर्शयति - कनिष्ठाङ्गुष्ठेत्यादि ॥ - ८५१-८५४ ॥
(सु० ) तत्र नन्दिकेश्वरप्रोक्तं कोणाहतादिपाटचतुष्टयं लक्षयतिकनिष्टेति । कनिष्ठाङ्गुष्ठैः संयोगात् अपरासामङ्गुलीनां विवर्तनात् कोणाहताख्यो हस्तपाटो जायते । सर्वासामङ्गुलीनामप्रैर्वातः विवर्तनं च यन्निष्पादयति स
Scanned by Gitarth Ganga Research Institute