________________
४००
संगीतरत्नाकर:
शिववक्त्रोत्थपादानां स्वरूपं प्रतिपादये ।। ८५० ॥ तेषामुत्पादकान्पाणी लोकतो लक्षयेत्सुधीः ।
तद्यथा - ( १ ) टनगिन गिननगि, इति नागबन्धः, (२) ननगड गिडदगि, इति पवन:, (३) गिडगिड गिडदत्था, इत्येकः, (४) किटतत २, इत्येकसरः, (५) नखु नखु, इति दुःसरः, (६) खिरत किट, इति संचार:, (७) योंगि योंथि, इति विक्षेपः । इति सद्योजातोद्भवाः सप्त हस्तपाटाः
त्वारः पाटाः नन्दिकेश्वरप्रोक्ता हस्तपाटाः । उत्फुल्लादयः समग्रहान्ता एकविंशतिः पटहादिषु हस्तपाटाः | उल्लोलादयः परिवृत्तान्ताश्च षोडश । तलप्रहारादयोऽष्टौ विषमपाटाः, त एव अपाटा इत्युच्यन्ते । सञ्चविच्छुरितौ चालग्नपाटौ स्याताम् । भ्रमरकुञ्चितौ च चित्रपाटौ । एवमष्टाशीतिर्हस्तपाटाः ॥ ८४०-८४९ ॥
(क०) अथ नागबन्धादीनां पञ्चत्रिंशद्धस्तपाटानां स्वरूपाणि लोकप्रसिद्धया दर्शयति - शिववक्त्रोत्थेत्यादि । तत्रैकसख्ये हस्तपा किटततेति वर्णान् लिखित्वा अनन्तरं द्वयको लिखितः । तेन तेषां द्विरुच्चारणमवगन्तव्यम् । किटतट, किटतटेति । एवं सर्वत्र पाटसंख्याङ्कान् विहाय मध्ये विन्यस्तैः द्वयादिसंख्याङ्कः तत्पूर्वस्य वर्णसमुदायस्य द्विरुच्चारणादिकं द्रष्टव्यम् ॥ ८५०, ८५० ॥
(सु० ) तत्र ईश्वरमुखोद्भवानां पञ्चत्रिंशद्धस्तपाटानां स्वरूपं प्रतिज्ञाय कथयति - शिववक्त्रोत्थेत्यादिना । क्रमेण तेषां लक्षणान्याह - तद्यथेति । तत्र नागबन्धादयो विक्षेपान्ताः सप्त हस्तपाटा यथा -- टनगिन गिननगि इति नागबन्ध: ( १ ) ; ननगिड गिडदगि इति पवन : (२); गिडगिड गिडदत्था इत्येकः (३) किटतट २ इत्येकसर : ( ४ ) ; नखु नखु इति दु:सर: (१) ; खिरतकिट इति संचार : ( ६ ) ; थोंग थोंथि इति विक्षेप: (७) इति सद्योजातोद्भवाः सप्त हस्तपाटाः ॥ १ ॥
Scanned by Gitarth Ganga Research Institute