________________
३९९
षष्ठो वाद्याध्यायः स्थूलहस्तोऽर्धापाणिः पार्श्वपाण्यर्धपाण्यपि ! कर्तरीसमकर्तयौं ततो विषमकर्तरी ।। ८४२ ।। समपाणिश्च विषमपाणिः स्यात्पाणिहस्तकः । नागबन्धोऽप्यवघटः स्वस्तिकश्च समग्रहः ।। ८४३ ॥ इत्येकविंशतिहस्तपाटाः स्युः पटहादिषु । उल्लोलः पाण्यन्तरश्च निर्घोषः खण्डकर्तरी ॥ ८४४ ॥ दण्डहस्तः समनखो बिन्दुर्यमलहस्तकः । रेचितो भ्रमरो विद्युद्विलासोऽप्यर्धकर्तरी ।। ८४५ ॥ अलग्नाख्यस्ततो रेफः समपाणिरतः परम् । परिवृत्तः पोडशेति वाद्येषु पटहादिषु ॥ ८४६ ।। एतान्मायो हुडुक्कायां कुर्वते वाद्यवेदिनः । अष्टौ विषमपाटाः स्युरपाटाख्यान् ब्रुवेऽधुना ॥ ८४७ ॥ तलपहारः प्रहरो वलितो गुरुगुञ्जितः । अर्धसञ्चस्त्रिसञ्चश्च विपमोऽभ्यस्त इत्यमी ।। ८४८ ॥ स्यातामलगपाटो द्वौ सञ्चविच्छुरिताभिधौ । भ्रमरः कुश्चितश्चेति चित्रपाटावुभौ मतौ ॥ ८४९ ॥ अष्टाशीतिरिमे हस्तपाटा निःशङ्ककीर्तिताः ।
पटहादिसाधारणत्वेऽपि प्रायेण हुडुक्कागतान् षोडश पाटानुद्दिशति-उल्लोल इत्यादि । अपाटापरसंज्ञकानष्टौ विषमपाटानुद्दिशति-तलपहार इति । अथापरांश्चतुरः पाटानुद्दिशति-सश्चेत्यादि । मिलितां हस्तपाटसंख्यामाह-अष्टाशीतिरिति ॥ ८४०-८४९- ॥
(सु०) मतान्तरेण पटहे पाटभेदानाह-कोणाहत इति । कोणाहतादयश्चा
Scanned by Gitarth Ganga Research Institute