________________
षष्ठो वाद्याध्यायः
३९३ अगुलत्रयविस्तारां पटहे वेष्टयेद् दृढम् । बाह्य कायस्य यचर्म पशोस्तेन घनेन च ॥ ८१२ ॥ कवलाख्येन बनीयापिहितं वदनद्वयम् । दक्षिणास्यस्य कवलं परितः कृतरन्ध्रकम् ।। ८१३ ।। रन्ध्रक्षिप्तगुणांढमाकृष्येतरवक्त्रगैः । वलये. तान्गुणान्सम्यग्वनीयादाढर्थसिद्धये ।। ८१४ ॥ वामास्यकवलान्तःस्थसप्तरन्ध्रनिवेशितैः । गुणैरावेष्टय कलशानायसैवलयैः ।। ८१५ ॥ अन्तःक्षिप्त्वा समाकृष्टैलये गाढतां नयेत् । कलशेभ्यो बहिर्वामवलयान्ते च बध्यते ।। ८१६ ॥ वेष्टनाय कटेः कच्छेत्युक्तोऽयं स्कन्ददैवतः । श्रीयज्ञपुरवर्येण पटहो मार्गसंभवः ।। ८१७ ।।
इति मार्गपटहः वामवक्त्रगं वलयमवकुण्ठ्य,उभयविधं सप्तरन्ध्रयुतं कृत्वा रन्ध्रेषु क्षिप्तैः सूक्ष्मदोरकैः कलशान् श्लथं बन्धनीयाः। त इति । ते कलशाः सुवर्णादिधातुमयाः चतुरझुलदीर्घा: सप्त कार्याः । वाममुखात् अगुलचतुष्टयं परित्यज्य लोहकृतां पत्रिकामगुलत्रयविस्तारां दृढतया पटहे आवेष्टयेत् । बाह्यमिति । पशोः तर्णकस्य छागस्य वा शरीरबाह्यं यचर्म तेन निबिडेन कवलनामधेयेन पिहितं मुखद्वयं बध्नीयात् । दक्षिणेति । दक्षिणमुखस्य कवलं सर्वतः छिद्रयुतं कार्यम् । रन्ध्रेषु क्षिप्तैर्दोरकैः कलशानाकृष्य इतरमुखगतै: वलये तान् दोरकान् बध्नीयात् । वामेति । वाममुखस्य कवलं तु अन्त:स्थेषु सप्तरन्ध्रेषु निवेशितैः दोरकैः कलशानावेष्टय आयसैः लोहमयैः वलयैः अन्तर्निक्षिप्य आकृष्टे: स्वैर्दोरकैः वलयं दृढं कुर्यात् । कलशेभ्य इति । कलश:सकाशात् बहिःप्रदेशे वामवलयप्रान्ते च कलशे बध्यते । अयं पटहः कच्छेत्युच्यते । स्कन्दो गुहो दैवतं यस्य ।। -८०९-८१७- ॥
इति मार्गपटहः
Scanned by Gitarth Ganga Research Institute