________________
३९२
संगीतरत्नाकरः मार्गदेशीगतत्वेन पटहो द्विविधो भवेत् ।। ८०५ ॥ मार्गस्थपटहस्यात्र लक्षणं तावदुच्यते । सार्धहस्तद्वयं तस्य दैर्ध्य स्यात्परिधिः पुनः ॥ ८०६ ॥ षष्टयगुलो मध्यदेशः पृथुलो दक्षिणं मुखम् । कर्तव्यं संमितं सा!रेकादशभिरङ्गुलैः ॥ ८०७ ॥ वामं तु दशभिः सार्धेः संमितं दक्षिणे मुखे । आयसं वलयं कार्य वामे वल्लीसमुद्भवम् ।। ८०८।। पाण्मासिको मृतो वत्सो यस्तस्यादाय पारिकाम् । तयावगुण्ठ्य वलयं वल्लीजं वामवक्त्रगम् ॥ ८०९ ॥ सप्तरन्ध्रान्वितं कृत्वा सुदृढैः सूक्ष्मदोरकैः ।। निक्षिप्तस्तेषु रन्ध्रेषु बन्धव्याः कलशाः श्लथम् ॥ ८१०॥ ते हेमादिमयाः सप्त दैर्येण चतुरहगुलाः ।
त्यक्त्वामुलानि चत्वारि वामे स्यालोहपत्रिकाम् ॥ ८११ ॥ श्वासपूर्णोदरं धुंधुंथुमादिवर्णोच्चारेण वादयेत्। कर्कटकस्य लक्षणं नृत्ताध्याये वक्ष्यते, " अन्योन्यान्तरनिष्क्रान्ता स्फुरद् गुल्मस्तु कर्कटः" इति ॥ ८०२-८०४-॥
____ इति शङ्खलक्षणम्
इति सुषिरवाद्यलक्षणम् (सु०) अथानद्धाख्यं विवक्षुः प्रथमं पटहं लक्षयितुं विभजते–मार्गेति। पटहो द्विविधः-मार्गपटहो देशीपटहश्चेति । तत्र मार्गपटहस्य लक्षणं कथ्यतेसार्धेति । साधौं द्वौ हस्तौ दीर्घता, परिधिः पुन: षष्टयगुलपरिमितः, मध्यदेश: स्थूल:, दक्षिणं मुखं साधैंकादशाङ्गुलम् । वाममुखं तु सार्धदशाङ्गुलम् । दक्षिणे मुखे लोहमयं वलयं कर्तव्यम् । वाममुखे वल्लीसमुद्भवम् । पाण्मासिकेति। यस्य तर्णकस्य जातस्य पाण्मासजातस्य पारिकामादाय गृहीत्वा, तया वल्लीज
Scanned by Gitarth Ganga Research Institute