________________
षष्ठो वाद्याध्यायः
खण्डमष्टाष्ट्गुलं न्यस्य मूलेऽस्य ध्वनिदृद्धये ।
अयं द्वित्राङ्गुलं तस्य च्छित्वा फूत्काररन्ध्रकम् ।। ८०० ॥ विधाय तुथुकारेण वादयेद्विविधध्वनिम् ।
एतद्वै ध्वानगम्भीरं वाद्यं गोपालकेलिषु ।। ८०१ ॥ इति शृङ्गलक्षणम्
छित्वा फूत्काररन्धं कृत्वा, तुथु इतिशब्देन गोपालकेलिषु वादयेदिति । एतद्वाचं ध्वानगम्भीरमित्युच्यते ॥ - ७९८-८०१ ॥
इति शृङ्गलक्षणम्
निर्दोषस्योत्खातनाभेः शङ्खस्यैकादशाङ्गुलम् । शिखरं निर्मितं धातुसिक्थकाभ्यां मनोहरम् || ८०२ ॥ मूलतयापर्यन्तं ह्रस्वमानाकृति क्रमात् ।
मर्धागुलमितं शिखरस्य मुखे भवेत् || ८०३ || अन्तस्तु माषमात्रं स्याच्छ्वमेवंविधं सुधीः । धृत्वा कर्कटस्तेन भूरिश्वासभृतोदरम् ।। ८०४ || धुंथो दिगिदित्येतद्वर्णोद्बोधेन वादयेत् ।
३९१
इति शङ्खलक्षणम् इति सुषिरवाद्यलक्षणम
(सु० ) शङ्खं लक्षयति - निर्दोषस्येति । उत्खाता नाभिर्यस्य, तथाविघशङ्खस्य द्वादशाङ्गुलम्, शिखरं धातुना मधूच्छिष्टेन कार्यम् । मूलादारभ्य अग्रपर्यन्तं भासमानाकृतिरन्यूनप्रमाणम् । शिखरस्य मुखे रन्ध्रमर्धाङ्गुलप्रमाणम् । अन्तर्मध्यं माषप्रमाण भवेत् । एवंविधं शखं कर्कटकाख्येन हस्तेन धृत्वा
Scanned by Gitarth Ganga Research Institute