________________
३९०
संगीतरत्नाकर:
हस्तद्वयकता या सा सैव तुण्डकिनी मता ।। ७९६ ॥ तुरुतुर्यपि सा लोके तित्तिरी च निगद्यते । यमलं तुण्ड किन्योश्च वाद्यं वाद्यविदो विदुः ॥ ७९७ ।। इति तुण्डकिनीलक्षणम्
तुण्ड कन्येव चुका स्याद्वैयें हस्तचतुष्टया । इति चुक्कालक्षणम्
करेणुवदनाकारवदनं दोषवर्जितम् ॥ ७९८ ।। यन्माहिषं श्लक्ष्णं स्निग्धं सुघटितं कृतम् शृङ्गस्यानडुहस्याथ धत्तूरकुसुमाकृति ।। ७९९ ।।
छिद्रसंयुक्ता धत्तरपुष्पाकारमुखी त्रिहस्तदीर्वा च काहला हाहूवर्णयुक्ता वीरबिरुदोञ्चारकारिणी जनैर्वाद्यते ॥ - ७९४, ७९५- ॥
इति काइलालक्षणम्
(सु० ) तुण्डकिन लक्षयति — हस्तेति । द्विहस्तदीर्घा काहलेव तुण्डकिनी । सा लोके तुरुतुरु तित्तिरीति च उच्यते । एतद् वाद्यं यमले मिति कथ्यते ॥ -७९६-७९७ ॥
इति तुण्डकिनीलक्षणम्
(सु०) चुक्कां लक्षयति - हस्तचतुष्टयदीर्घा तुण्डकिनी चुक्केत्युच्यते ॥ ७९७ ॥
इति चक्कालक्षणम्
(सु० ) शृङ्गं सक्षयति — करेण्विति । हस्तिशुण्डावत् निर्दोषं मसृणं स्नेहवत् सुघटितं महिषशृङ्गं यत्, तस्य मूले अनडुहस्य वृषभसंबन्धिनः शृङ्गस्य धत्तूरकुसुवत् अष्टाङ्गुलं खण्डं न्यसेत् । अग्रतश्च द्वयगुलपरिमितं
Scanned by Gitarth Ganga Research Institute