________________
३९४
संगीतरत्नाकरः देशीस्थोऽप्येवमेव स्याद्दर्येऽसौ सार्धहस्तकः । सप्ताङ्गुलं दक्षिणास्यमन्यत्सार्धषडङ्गुलम् ॥ ८१८ ॥ आन्तरं जाठरं वाक्ष्णं पशोर्गदितमुद्दली। तया तु स्वेच्छया वक्त्रं वाममस्य निबध्यते ॥ ८१९ ॥ विशेषोऽयं भवेदस्मिन्नुभौ खादिरदारुजौ । विधोक्तोऽयं द्वयोरन्यैरुत्तमो मध्यमोऽधमः ।। ८२० ।। उत्तमः प्रोक्तमानः स्याद् द्वादशांशोनितः पुनः ।। मध्यमः षष्ठभागेन विहीनस्त्वधमो भवेत् ॥ ८२१ ।।
___ इति देशीपटहः अथाद्यवर्णाःहवर्जितः कवर्गश्च टतवर्गों रहावपि । इति षोडश वर्णाः स्युरुभयोः पाटसंज्ञकाः ॥ ८२२ ।।
(सु०) एवं मार्गपटहं लक्षयित्वा देशीपटहं लक्षयति-देशीस्थ इति । मार्गपटहवत् देशीपटहः कार्यः । परं तु दीर्घत्वे सार्धहस्त: कर्तव्यः । दक्षिणं मुखं सप्ताङ्गुलम् । वाममुखं सार्धं षडङ्गुलम् । आन्तरमिति । पशोरन्तर्जठरे यत्स्थितं चर्म, वक्ष्णात् जातं वाणं तत् उद्दलीत्युच्यते । तया निर्मलया उद्दल्या वाममुखं बन्धनीयम् । एतावान् विशेष:-उभावपि पटहौ खदिरकाष्ठेन कार्यों । विधेति । अयं मार्गदेशीगतत्वेन द्विधा पटहः, प्रत्येकमुत्तमादिभेदेन त्रिप्रकारः, पूर्वोक्तप्रमाणेनोमुत्तमः, ततो द्वादशांशेन न्यूनो मध्यमः, षष्ठांशेन न्यूनोऽधम इति ।। -८१८-८२१ ॥
इति देशीपटहः (क०) उवर्जित इत्यादि । कखगघटठडढणतथदधनरह इति षोडश वर्णाः । उभयोः; मार्गदेशीपटहयोः । पाटसंज्ञका इति ।
Scanned by Gitarth Ganga Research Institute