________________
पश्यमस्तालाध्यायः
पट्पितापुत्रकस्त्रयश्रभेदः सोऽपि तथा त्रिधा । यथाक्षरे विशेषोऽत्र प्लुतमाद्यन्तयोर्भवेत् ॥ २२ ॥
११
आधे द्विकलवत् चच्चत्पुटेऽष्टौ कला अष्टौ गुरवो भवन्तीत्यर्थः । अन्यत्र द्विकलचाचपुटे पट्कलाः षड्गुरवो भवन्तीत्यर्थः । तौ चचत्पुटचाचपुटौ द्विगुणt द्विलापेक्षया द्विगुणीकृतौ सन्तौ चतुष्कलावित्युच्येते । अष्टगुरुसंमितो द्विकलचच्चत्पुटो द्विगुणीकृत्य षोडशगुरुसंमितः संश्चतुष्कलो भवति । षड्गुरुसंमितो द्विकलचाचपुटो द्विगुणीकृत्य द्वादशगुरुसंमितः संश्चतुष्कलो भवति । पादभागैरित्यादि । मद्रकादिषु वक्ष्यमाणेषु गीतकेषु गीतेषु च तैर्द्विकलोक्तैश्चतुष्कलोक्तैः चतुर्भिः पादभागैः मात्रा स्यात् । पारिभाषिकी मात्रा भवेत् ॥ २०, २१ ॥
(सु० ) द्विकलौ चञ्चत्पुटचाचपुटौ लक्षयति — गुरुरिति । अत्र चच्चत्पुटे च द्विकले द्विकलो गुरुः कर्तव्यः । आद्ये चाचपुटे अष्टौ कलाः । गुरुद्वयस्य चतस्रः, लघोरेका, प्लुतस्य तिस्रः, एवमष्टौ । अन्यत्र चाचपुटे षट्कला :, गुरोर्दे, लघुद्वयस्य द्वे, पुनरपि गुरोर्द्व, एवं षट् । ततश्चाष्टौ गुरवो द्विकलश्चचत्पुटः । षड्गुरवो द्विकलश्चाचपुटः । चतुष्कलौ तौ लक्षयति - चतुष्कलाविति । चच्चत्पुटचाचपुटौ द्विकलद्विगुणौ चतुष्कलौ भवतः ततश्च षोडश गुरवः चतुष्कलश्च चच्चत्पुट: । द्वादशगुरवः चतुष्कलश्चाचत्पुटः । द्विकल इति । द्विकले चञ्चत्पुटे च द्विकलद्वयेन पादभागः । चतुष्कले चतुष्केण पादभागः । ततश्च द्विकलयोरेतयोः गुरुद्वयेनैकपादः । चतुष्कल्यो : गुरुचतुष्केणैव पाद: । एवंविधाश्चत्वारः पादाश्रचत्पुटे । त्रयश्च चाचपुटे । अत एव तयोः क्रमेण चतुरश्रत्वं त्र्यश्रत्वं च । पादभागप्रसङ्गेन मद्रकादिगतं विशेषेणाह - पादभागैरिति । मद्रकादिषु तैश्चतुर्भिः पादभागैरेका मात्रा । एवं त्रिमात्रापदान्यनुपदमेव वक्ष्यते ॥ २०, २१ ॥
(क० ) षटूपितापुत्रक इत्यादि । त्र्यश्रभेदः ; चाचपुटभेदः
॥ २२-२४ ॥
Scanned by Gitarth Ganga Research Institute