________________
संगीतरत्नाकरः गुरुः कलात्र विकलेऽष्टावाद्येऽन्यत्र षदकलाः । ss SS SS SS इति द्विकलश्चञ्चत्पुटः। SS SS SS इति द्विकलचाचपुटः। ___ चतुष्कलौ तौ द्विगुणौ ssss ssss ssss SSSS इति चतुष्कलश्चच्चत्पुटः । ssss ssss SSSS इति चतुष्कलचाचपुटः ।
द्विकले द्विकलो मतः ॥ २० ॥ पादभागः कलानां तु चतुष्केण चतुष्कले ।
पादभागैश्चतुर्भिस्तैर्मात्रा स्यान्मद्रकादिषु ॥ २१ ॥ मान् भवतीत्यर्थः । अयमेककल इति । अयं यथाक्षर एककल इत्युच्यते । प्रतिपादभागमेकैककलायुक्त इत्यर्थः ॥ -१८, १० ॥
(सु०) तत्रैते केवला नोपयोगिन इति मत्वा तानुपेक्ष्य संगीतोपयोगिनस्तावन्मार्गगतान्निरूपयितुं तालविभागमाह-चतुरश्र इति । तालो द्विप्रकार: । चतुरश्रस्त्यश्र इति । तत्र चतुरश्रस्य चच्चत्पुट इति नामान्तरम् । त्र्यश्रस्य च चाचपुट इति । तयो दानाह-यथाक्षर इति । तो चच्चत्पुटचाचपुटौ प्रत्येक त्रिधा | चच्चत्पुट:, यथाक्षर: द्विकल: चतुष्कल इति त्रिप्रकार: । चाचपुटोऽपि, यथाक्षरः अष्टकल: चतुष्कल इति । तत्र यथाक्षरचञ्चत्पुटस्य चाचपुटस्य च लक्षणमाह-नामगतैरिति । मवणेषु वर्तमानैः गुरुलघुभिः यथाक्षरः चच्चत्पुटो भवति । एवं चाचपुटोऽप्ययं यथाक्षर इत्युच्यते, एककल इति च । चच्चत्पुटे त्वन्त्यवर्णस्य गुरुत्वेऽपि वचनात् प्लुत: कर्तव्यः । तत्र मुनिवचनमेव प्रमाणयितुम् ‘विदुः' इत्युक्तवान् । यदाह मतङ्ग:-". . . प्रगुणीकृत्य लघुप्लुतमथान्तिकम्" इति ।। -१८-१९ ॥
(क०) गुरुः कलात्रेति । अत्र एककलद्विकलचतुष्कलशव्देषु कलाशब्देन गुरुरुच्यत इत्यर्थः । अन्यत्र मात्रा कला । ‘लघुर्ल: स्यात् ' इति कलाशब्दस्य लघुपर्यायत्वेनोक्तत्वात् । द्विकलेऽष्टावाद्य इति । द्विकल
Scanned by Gitarth Ganga Research Institute