________________
पञ्चमस्तालाध्यायः
चतुरश्रस्तथा व्यश्र इति तालो द्विधा मतः ॥ १७ ॥ चच्चत्पुटश्चाचपुट इति नान्नी तयोः क्रमात् । यथाक्षरश्च द्विकलश्चतुष्कल इति त्रिधा ।। १८ ॥ प्रत्येकं तौ नामगतैगलैस्तत्र यथाक्षरः । अयमेककलश्चच्चत्पुटे त्वन्त्यं प्लुतं विदुः ॥ १९ ॥ 5ऽ।ऽ इति यथाक्षरश्चञ्चत्पुटः ॥ऽ।ऽ । इति यथाक्षरश्चाचपुटः । तौ द्वावन्यप्रकारार्थी भिद्यतेऽनेकधा बुधैः । चञ्चत्पुटश्चाचपुट: षपितापुत्रकस्तथा । हेला च त्रिगता चैव संपक्केष्टस्तथैव च । नत्कुटो नत्कुटी चैव खञ्जक: वञ्जिका तथा ॥ आक्रीडिता विलम्बा च भङ्गा द्वादश कीर्तिताः । कुटिलाक्षिप्तिका त्र्यश्रा चतुरश्रा च मिश्रका ॥
चटुला चेति संप्रोक्ता उपभङ्गा पडेव हि ।" इति ।। -१६- ॥
(क०) तस्य मार्गतालस्य भेदौ दर्शयति-चतुरश्र इत्यादिना । नामगतैर्गलैस्तत्र यथाक्षर इति । तत्र ; तेषु मध्ये । नामगतैः ; चच्चत्पुट इति संज्ञां, चाचपुट इति संज्ञां चावयवत्वेन प्राप्तैः । गलैः; गुरुभिलघुभिश्च । गलैरिति गुरूणां लघूनां चाद्यवर्णेन ग्रहणम् । चच्चत्पुटम्तावत चकारभ्य संयुक्तपरत्वेन गुरुत्वात् तालस्याद्यावयवौ गुरू । पकारस्यैकमात्रिकत्वेन लघुत्वात् तृतीयोऽवयवो लघुः । टकारस्य सविसर्गत्वेन गुरुत्वात् चतुर्थस्य गुरुत्वे प्राप्ते ; चच्चत्पुटे त्वन्त्यप्लुतं विदुः इति विशेषवचनाच्चतुर्थावयवस्य प्लुतत्वम् । एवमष्टमात्रिकश्च चच्चत्पुटो यथाक्षर इति भवति । यथाक्षरत्वं च तस्य नामाक्षरानतिक्रमात् । अक्षराणामनतिक्रमो यथाक्षरमित्यव्ययीभावः । यथाक्षरमस्यास्तीति मत्वर्थीयेऽकारप्रत्यये कृते यथाक्षर इति भवति । स्वनामगतगुरुलध्वक्षरानतिवृत्त्या स्वरूपगुरुलघु
Scanned by Gitarth Ganga Research Institute