________________
संगीतरत्नाकरः पश्चलघ्वक्षरोच्चारमिता मात्रेह कथ्यते ॥ १६ ॥
अनया मात्रयात्र स्यात् लघुगुर्वादिकल्पना । कला' इति प्रथममुक्तम् । ध्रुवके ध्रुवमार्गे मात्रिका ध्रुवकेत्यर्थः । प्राथम्यात् ध्रुवपातयोग्यत्वाच्च तस्या एवोपादेयत्वात् ॥ १५ ॥
(सु०) मार्गविशेष नियमयति-ध्रुवकेति । ध्रुवके पतिते द्वे मात्रे चित्रे मागे प्रयोक्तव्ये । वार्तिके माग ध्रुवकासर्पिणीपताकापतिताश्चतस्रो मात्रा: प्रयोक्तव्याः । दक्षिणे माग ध्रुवकादयोऽष्टौ मात्राः प्रयोक्तव्या इति ॥ १५ ॥
(क०) मात्राशब्देनात्रापि ; “निमेषकालो मात्रा म्यात " (भाव. पृ. १९५) इति शास्त्रान्तरे प्रसिद्धायां मात्रायां प्राप्तायां तदपवादार्थमाहपञ्चलध्वक्षरेत्यादि । इद्द ; मार्गतालविषये, मात्रा तु पश्चलघ्वक्षरोच्चारमिता पञ्चानां लघ्वक्षराणाम् ; “ कचटतपाः' इत्येतेषाम् । उच्चारशब्देन उच्चारकालो गृह्यते । तेन मिता संमिता । तत्कालसदृशकालेत्यर्थः । तथाचोक्तं भरतमुनिना; " निमेषाः पञ्च विज्ञेया गीतकाले कलान्तरम् " (नाट्य. ३१. ३) इति । अनया मात्रयात्र लघुगुर्वादिकल्पना म्यादिति । अत्र मार्गतालेषु पञ्चलघ्वक्षरोच्चारमितेन कालेन गुरुः । आदिशब्देन प्लुतो गृह्यते । तेन पञ्चदशलध्वक्षरोच्चारमितेन कालेन प्लुतः कल्पनीय इत्मर्थः ॥ -१६- ॥
(सु०) मात्राया लक्षणमाह- पञ्चेति । पञ्चानां लध्यक्षराणामुच्चारणे यावत्कालस्तन्मिता तत्कालव्यापिक्रिया मात्रेत्युच्यते । अनया मात्रया अत्र तालप्रकरणे लघुगुर्वादय: कल्पयितव्या: । एकमात्री लघुः ; मात्राद्वयं गुरुः ; मात्रात्रयं प्लुत: ; मात्रार्धे द्रुत इति । अनुद्रुतादयोऽपि भेदा: कैश्चिदुक्ता: । ते भरतादिप्रयोगेषु, प्रन्थे चानुक्तत्वात् लक्ष्येऽप्यप्रसिद्धत्वाचापेक्षिताः । तत्र मतङ्गेन द्वादश ताला उक्ता: । यदाह ;
"त्र्यश्रोऽथ चतुरश्रथ द्वावेतावादिसंस्थितौ । तयोश्चच्चत्पुटो युग्मस्ततश्चाचपुट: स्मृतः ॥
Scanned by Gitarth Ganga Research Institute