________________
पञ्चमस्तालाध्यायः
ध्रुवका पतिता चित्रे वार्तिके त्वादिमे उभे ॥ १५ ॥
अन्त्ये द्वे च प्रयोक्तव्ये क्रमादष्टौ च दक्षिणे । ता अष्टौ मात्रा ध्रुवपाते ध्रुवादिपाते ; सशब्दक्रियायामित्यर्थः । नावापादौ कदाचनेति । निःशब्द क्रियायां तु न प्रयोक्तव्या एव । नावापादाविति निःशब्द क्रियाया एव निषेधविषयत्वेनोक्तत्वात् । ध्रुवपात इत्यत्र सामर्थ्यादादिशब्दमध्याहृत्य विधिविषयत्वेन सर्वापि सशब्द क्रिया गृह्यत इति मन्तव्यम् ॥ १२-१४- ॥
___ (सु०) क्रियाविशेषान् कथयति-ध्रुवकेति । ध्रुवकादयोऽष्टौ मात्रा भवन्ति । मात्रा इति । मात्रा; क्रिया । तासां लक्षणान्याह-सशब्देति । या सशब्दा उच्चार्यते सा ध्रुवा । वामप्रदेशगामिनी सर्पिणी । दक्षिणप्रदेशगामिनी कृष्णा । अधोगता पद्मिनी । या बहिर्याता सा दिनियममन्तरेण शरीररूपवर्तिनी क्रिया विसर्जिता । हस्ताकुञ्चनरूपक्रिया विक्षिप्ता । ऊर्ध्वगामिनी क्रिया पताका | करयोः पातनात् वैकल्प्येनाधानयनात् पतिता | ताः; एता मात्राः; छोटिकाशब्दवती ध्रुवपाते कर्तव्या । आवापादौ न कर्तव्या । एता मात्राः ॥ १२-१४-॥
(क०) ' शेषेषु द्वे चतस्रोऽष्टौ, इति संख्यानियममन्तरेण वचनेन संख्येयमात्राणामनियमेन प्रयोगे प्राप्ते तन्नियमार्थमाह -ध्रुवका पतिता चित्र इत्यादि । आदिमे उभे ध्रुवकासर्पिण्यौ । अन्त्ये द्वे च पताकापतिते च । एवं चतस्रो मात्रा वार्तिके मार्गे तु प्रयोक्तव्या इति क्रमोऽप्यत्र नियम्यते । क्रमादष्टौ च दक्षिण इत्यत्र तु संख्येयानां क्रम एव नियम्यते । ध्रुवमार्गे तु पारिशेष्यात ध्रुवसंज्ञः पात एव प्रयोक्तव्य इत्यवगन्तव्यम् । पारिशेप्यं च ध्रुवव्यतिरिक्तानामेव कलानां, तालेषु प्रयोक्ष्यमाणत्वात् । अन्यथा ध्रुवपातस्य न कापि प्रयोगः । अतस्तत्र ध्रुवकैव मात्रा प्रयोक्तव्यत्येवं मन्यमानेन ग्रन्थकारेण ; 'ध्रुवके मात्रिका
Scanned by Gitarth Ganga Research Institute