________________
संगीतरत्नाकरः ध्रुवका सर्पिणी कृष्णा पद्मिनी च विसर्जिता । विक्षिप्ताख्या पताका च मात्रा स्यात्पतिताष्टमी ॥ १२ ॥ सशब्दा तु ध्रुवा ज्ञेया सर्पिणी वामगामिनी । कृष्णा दक्षिणतो गन्त्री पद्मिनी स्यादधोगता ॥ १३ ॥ विसर्जिता वहिर्याता विक्षिप्ताकुश्चनात्मिका । पताका तूर्ध्वगमनात्पतिता करपातनात् ॥ १४ ॥
ध्रुवपाते प्रयोज्यास्ता नावापादौ कदाचन । शेमेषु ; चित्रवार्तिकदक्षिणेषु क्रमात द्वे चतस्रोऽष्टौ मात्राः कला भवेदिति । चित्रे द्वे मात्रे कला । वार्तिके चतस्रो मात्रा: कला । दक्षिणेऽष्टौ मात्राः कला इति क्रमो द्रष्टव्यः ॥ ६-११ ।।
(सु०) सा सशब्दक्रिया पातशब्देन कलाशब्देन वाच्यते । तुशब्दान्नि:शब्दक्रिया कलासंज्ञयैवोच्यत इत्यर्थः । तासां लक्षणं प्रतिज्ञाय कथयतितासामिति । उत्तानस्य हस्तस्य प्रसृताङ्गुलेरङ्गुलिकुञ्चनमावापः । अधस्तलस्याङ्गुलीनां प्रसारणं निष्क्रामः । अस्यैवोत्तानस्य हस्तस्य विस्तारिताङ्गुले: दक्षिणपावं क्षेप: प्रक्षेपो विक्षेप इत्युच्यते । अस्यैव दक्षिणपार्श्वस्थितस्य हस्तस्याधस्तलस्यानुत्तानस्य, अङ्गुलिकुञ्जनम् ; अगुलीनां संकोच: प्रवेशः । छोटिका ; अङ्गुष्ठमध्यमाङ्गुलीतलसंयोगेन शब्दोत्पातनम् ; तच्छब्दवतो हस्तस्याधोनयनं ध्रुव इत्युच्यते । दक्षिणहस्तस्य पात: ; दक्षिणहस्तेन तालिकोत्पातनं शम्या । वामकरण तालिकोत्पातनं तालः । उभाभ्यां तालिकोत्पातनं संनिपात इति। तेषामिति । तेषाम ; आवापादीनाम् । मार्गविशेषेण मानम् । मार्गान्निरूपयति-मार्गा इति । चत्वारी मार्गा भवन्ति। ध्रुवश्चित्रो वार्तिको दक्षिणश्चेति । तत्र ध्रुवमार्ग मात्रा प्रमाणकला । मात्रायाः लक्षणं वक्ष्यति । चित्रे मागे द्वे मात्रे कला | वार्तिके चतस्रो मात्रा: कला । दक्षिणेऽष्टौ मात्रा: कला । इति मार्गविशेषेण मात्राः ॥ ६-११ ॥
(क०) अष्टौ मात्राश्चोद्दिश्य लक्षयति - ध्रुवका सर्पिणीत्यादिना ।
Scanned by Gitarth Ganga Research Institute