________________
पञ्चमस्तालाध्यायः पातः कला तु सा ज्ञेया तासां लक्ष्माभिदध्महे ॥ ६ ॥ आवापस्तत्र हस्तस्योत्तानस्याङ्गुलिकुश्चनम् । निष्क्रामोऽधस्तलस्य स्यादगुलीनां प्रसारणम् ॥ ७ ॥ क्षेपो दक्षिणपार्श्वस्योत्तानस्य प्रस्ताङ्गुलेः।। विक्षेपोऽधस्तलस्यास्य प्रवेशोऽगुलिकुञ्जनम् ॥ ८ ॥ ध्रुवो हस्तस्य पातः स्याच्छोटिकाशब्दपूर्वकः । शम्या दक्षिणहस्तस्य तालो वामकरस्य तु ॥ ९ ॥ उभयोः संनिपातः स्यात्तेपां मार्गवशान्मितिः । मार्गाः स्युस्तत्र चत्वारो ध्रवश्चित्रश्च वार्तिकः ।। १० ।। दक्षिणश्चेति तत्र स्याद् ध्रुवके मात्रिका कला । शेषेषु द्वे चतस्रोऽष्टो क्रमान्मात्राः कला भवेत् ॥ ११ ॥
(मु०) तालस्य लक्षणमाह----काल इति । गीतादेः मितिर्मानं विदधत कुर्वन् काल: ताल इत्युच्यते । नन्वनवच्छिन्नस्य कालस्य कथं तत्परिच्छेदकत्वम्! तत्राह-लघ्वादीति | लवादयो लघुगुरुप्लुतद्रुतादयः ; तै: मिता परिच्छिन्ना या क्रिया वक्ष्यमाणा सशब्दा नि:शब्दा स्वेच्छाकृता वा अनया परिच्छिन्न: कालस्ताल इत्युच्यते । स तालो द्विप्रकार: । मार्गताल:, देशीतालश्चति । तत्र मार्गतालस्य क्रिया द्वैविध्यमाह-तत्रेति । तत्र ; तयोः मार्गतालदेशीतालयामध्ये ; आद्यस्य ; मार्गतालस्य, क्रिया; द्विप्रकारा; नि:शब्द क्रिया सशब्द क्रिया चेति । तत्र निःशब्द क्रिया कलाशब्देनोच्यते | सा चतुर्विधा ; आवापः; निष्क्रामः, विक्षेपः, प्रवेशक इति । सशब्द क्रिया चतुःप्रकारा; ध्रुवः, शम्या, ताल:, संनिपात इति ॥ ३-५-॥
(क०) पातः कला तु सा ज्ञेयेति । सा; सशब्द क्रिया पातः कलेति संज्ञाद्वयेनोच्यते । निःशब्द क्रिया तु कलासंज्ञयैवोच्यत इति तुशब्दस्यार्थः । मार्गवशान्मितिरिति । मितिः ; प्रमाणम् । शेषेष्वित्यादि।
Scanned by Gitarth Ganga Research Institute