________________
४
संगीतरत्नाकरः
कालो लघ्वादिमितया क्रियया संमितो मितिम् । गीतादेविदधत्तालः स च द्वेधा बुधैः स्मृतः ॥ ३ ॥ मार्गदेशीगतत्वेन तत्राद्यस्य क्रिया द्विधा । निःशब्दा शब्दयुक्ता च निःशब्दा तु कलोच्यते ॥ ४ ॥ स्यादावापोsथ निष्क्रामो विक्षेपश्च प्रवेशकः । निःशब्देति चतुर्धोक्ता सशब्दापि चतुर्विधा ।। ५ । ध्रुवः शम्या ततस्तालः संनिपात इतीरिता ।
संज्ञायाम्" (पा० ३-३-१९) इत्यनेन सूत्रेणाधिकरणेऽर्थे घञ्प्रत्यये विहिते ताल इति रूपम् ॥ २ ॥
( सु० ) एवं मङ्गलमार चय्य एतस्मिन्नध्यायेऽभिधेयं कथयति — अथ ताल इति । अथ प्रबन्धनिरूपणान्तरं ताला निरूप्यते । कोऽयं ताल: ? इत्यपेक्षायां तालशब्दव्युत्पत्ति तावदाह्-ताळ इति । तलप्रतिष्ठायामितीति । अस्माद्धातोः अधिकरणकारके घञ्प्रत्यये कृते आदिवृद्धौ ताल इति रूपम् । तल्यते प्रतिपाद्यते गीतं नृत्तं वाद्यं च यस्मिन्निति ॥ २ ॥
(क० ) तालस्य स्वरूपं निरूपयितुमाह- काल इत्यादि । लघ्वादिमितयेति । आदिशब्देन द्रुतगुरुप्लुता यथासंभवं गृह्यन्ते । अत्र यद्यपि लध्वपेक्षया द्रुतस्याल्पत्वात् द्रुतादीति वक्तव्यं लध्वादीति वचनं मार्गदेशीगतोभयतालसाधारण्यायेति मन्तव्यम् । अन्यथा मार्गतालो न लक्षितः स्यात् । तत्र द्रुतप्रयोगाभावादिति भावः । तैः लध्वादिभिः मितया संमितया समीकृतयेत्यर्थः । क्रिययेति ; निःशब्दया सशब्दया चेत्यर्थः । गीतादेरिति ; आदिशब्देन वाद्यनृत्तयोः परिग्रहः । एवंविशिष्टः काल एव मुख्यस्तालशब्दार्थः । कांस्य निर्मितो घनवाद्यभेदस्तु ध्वननेनास्याभिव्यञ्जकत्वात् लक्षणया तथा व्यपदिश्यते । तत्राद्यस्येति ; तत्र; तयोर्मध्ये, आद्यस्य; मार्गगतस्य ॥ ३–५- ॥
Scanned by Gitarth Ganga Research Institute