________________
षष्ठो वाद्याध्यायः स्थायिनि द्विगुणे षड्जेऽधस्तृतीयं विधाय च ॥ ७४६ ॥ अधस्तनं प्रकम्प्याथ विलम्ब्य स्थायिनं ततः । प्राचीनं लघुतां नीत्वा द्विस्त्रिहत्य तं ग्रहम् ।। ७४७ ॥ लघुकृत्याधरस्यार्धमास्पृश्य ग्रहपश्चमम् । विलम्ब्य तं द्रुतीकृत्य तृतीयस्पर्शमाचरेत् ॥ ७४८ ॥ अथोक्त्वा पञ्चमं तं च दीर्घाकृत्याधरं मनाक् । कम्पयित्वा ग्रहन्यासाद्भवेत्स्वस्थानमादिमम् ।। ७४९ ॥ छायानडाख्यरागस्य ग्रहो वंशे तृतीयकः ।
एतां सालगनट्ठां तु भाषन्ते लक्ष्यवेदिनः ।। ७५० ॥ त्रीन् स्वरान् क्षणमात्रं विरम्य ग्रहद्वितीयग्रहतत्पूर्वानुच्चार्य तं पूर्व ताडयित्वा आहे समाप्तौ भैरव्या आद्यं स्वस्थानं भवति ॥ ७४४, ७४९- ॥
इति भैरवी
(क०) छायानट्टायाम् -अधरस्यामिति । अधरोऽधस्तनः । अत्र ग्रहीभूतषड्जापेक्षयाधरो निषादः । तस्यार्घमीषत्स्पर्शनं भवति, तमीपस्पृष्टेत्यर्थः । एतां सालगनट्टां तु भाषन्ते लक्ष्यवेदिन इति । अत्र तुशब्दोऽवधारणे भिन्नक्रमश्च । एतां विति, च्छायानट्टामेवेत्यर्थः । गमृषभाधं चेति । गं गान्धारं स्पृष्ट्वा । ऋषभार्धमिति ऋषभमीपस्पृष्टेत्यर्थः । अर्ध पुनर्बजेदिति । पुनःशब्देन तदेवर्षभार्धमिति गम्यते । ऋषभाधे द्विः कुर्यादित्यर्थः ।। -७४६-७५२- ।।।
(सु०) अथ उछायानट्टामाह-स्थायिनीति । द्विगुणे षड्जे स्थायिनि कृते सति तृतीयानन्तरं स्थायिनोऽध:स्थ प्रकम्प्य स्थायिनं विलम्बन गीत्वा तत: पूर्व लघुतां नीत्वा द्वित्रिस्ताडयित्वा च लाघवेन प्रहं गीत्वा अधःस्थितस्या) स्पृष्ट्वा विलम्बितं पश्चमानन्तरमेवाशु गीत्वा तृतीयस्वरानन्तरं पञ्चम
Scanned by Gitarth Ganga Research Institute