________________
३७८
संगीतरनाकरः धैवते स्थायिनि प्राञ्चं ग्रहं ग्रहत्तीयकम् । तुर्य कृत्वा तमाहत्य द्वितीयं कम्पयेत्ततः ।। ७४२ ॥ अवरुह्य तृतीयादिक्रमेण चतुरः स्वरान् । ग्रहन्यासाद्देवकृतेराचं स्वस्थानमादिशेत् ।। ७४३ ॥ तृतीय ग्रहतां त्वस्याः पश्यामो वंशगोचरे ।
इति देवकीः
इति क्रियाङ्गानि धैवतं ग्रहमास्थाय तृतीयादवरुह्य च ॥ ७४४ ॥ स्वरत्रयं विरम्याथ ग्रहं परमथ ग्रहम् । पूर्व कृत्वा तमाहत्य ग्रहन्यासेन जायते ॥ ७४५ ॥ स्वस्थानमाधं भैरव्यास्तृतीयोऽस्या ग्रहो जने ।
इति भैरवी चारणे विश्रम्य पूर्व किंचिद्गीत्वा तृतीयं लाघवेनोच्चार्य तत्पूर्वस्वरद्वयं स्पृष्टा, स्थायिनः परौ स्वरौ द्वौ लघुकृत्य, द्रुतद्वितीयानन्तरं प्रहे समाप्तौ गौडक्रिया आचं स्वस्थानं भवति ॥ -७३८-७४१॥
___इति गौडक्री: (सु०) अथ देवक्रियमाह-धैवत इति । धैवते ग्रहे कृते सति पूर्वग्रहे तृतीयचतुर्थावुच्चार्य आरोहेण द्वितीयं कम्पयित्वा, अवरोहेण तृतीयादीन् चतुःस्वरान् क्रमेण गीत्वा, ग्रहे समाप्तौ देवक्रिया आद्यं स्वस्थानं भवति ॥ ७४२, ७४३-॥
इति देवकी:
इति क्रियाङ्गानि (सु०) अध भैरवीमाह---धैवतमिति । धैवताद् प्रहात् तृतीयादवरुह्य
Scanned by Gitarth Ganga Research Institute