________________
षष्ठो वाद्याध्यायः
ग्रहं द्विगुणसं प्रोच्य तदर्धे च द्वितीयकम् ॥ ७३५ ॥ विलम्बिते तृतीयेऽथ द्वितीयं द्रुततां नयेत् । ग्रहार्थे च स्थिरीभूय कम्पयित्वा ग्रहं ततः ॥ ७३६ ।। परौ स्वरौ द्रुतीकृत्य लघुकृत्य परं ग्रहे ।
न्यासे कृते रामकृतेः स्वस्थानं प्रथमं भवेत् ॥ ७३७ ॥ द्वितीयस्वरमेवास्या वंशे वीक्षामहे ग्रहम् । इति रामक्री :
तस्मिन्नेव हे कृत्वा द्वितीयं च तृतीयकम् ॥ ७३८ ॥ ग्रहा द्रुतमुच्चार्य स्पृष्ट्वा पूर्व ग्रहस्य च । अर्ध प्रोच्य विरम्याथ पूर्व स्पृष्टा तृतीयकम् ।। ७३९ ॥ लघुकृत्य लघोः पूर्वौ स्पृष्ट्राय स्थायिनः परौ । लघुकृत्य द्रुतं कृत्वा द्वितीयं न्यस्यते ग्रहे ॥ ७४० ॥ यदा तदा गौडकृतेर्भवेत्स्वस्थानमादिमम् । द्वितीयोऽस्यामपि प्रायो ग्रहो लक्ष्येषु दृश्यते || ७४१ ॥ इति गौडकी:
३७७
1
( सु० ) अथ रामक्रियमाह – ग्रह इति । द्विगुणं षड्जं ग्रहं च गीत्वा तस्यार्धं द्वितीयं च स्वरमुच्चार्य तृतीयं विलम्ब्य द्वितीयं शीघ्रं गायेत् । ततो स्थिरग्रहार्धगानानन्तरं ग्रहं प्रकम्प्य परौ ग्रहौ द्वितीयतृतीयौ स्वरावाशूच्चार्य, परं च तुर्यं लाघवेन गीत्वा ग्रहे समाप्तौ रामक्रिया आद्यं स्वस्थानं भवति ॥ -७३५-७३७- ॥
इति रामक्री:
( सु० ) अथ गौडक्रियमाह - तस्मिन्निति । तस्मिन्नेव द्विगुणे षड़जे हे कृते सति, द्वितीयतृतीयौ गीत्वा ग्रहस्यार्धे शीघ्रं गीत्वा पूर्वस्पर्शात् प्रहार्धो
48
Scanned by Gitarth Ganga Research Institute