________________
संगीतरत्नाकरः त्रिश्चतुर्वा ततः स्पृष्ट्वा ग्रहं पूर्वमुदीर्य च । कम्पिते स्थायिनि न्यासात्स्वस्थानं प्रथमं भवेत् ।। ७३१ ॥ रागे शुद्धवराव्यां सा द्वितीयस्थायिका जने ।
इति शुद्धवराटी तमेव स्थायिनं कृत्वा तं तदधै द्विराहतम् ॥ ७३२ ।। द्विस्त्रिोक्त्वाथ द्वितीयं कम्पयित्वा विलम्ब्य च ।। आहत्य द्विश्वतुर्वास्मात्परं कृत्वा लघु ग्रहम् ।। ७३३ ।। उक्त्वा ग्रहार्धपूर्वे तु दीर्घाकृत्य ग्रहे यदा।। न्यस्यते शुद्धनट्टायाः स्वस्थानं प्रथमं तदा ।। ७३४ ।। वंशेष्वस्यामपि प्रायो द्वितीयो दृश्यते ग्रहः ।
इति शुद्धनद्य इति भाषाङ्गानि
तृतीयमारुह्य त्रिवारं गीत्वा ग्रहस्पर्शानन्तरं पूर्वमुच्चार्य कम्पिते स्थायिनि समाप्तौ शुद्धवराव्याः प्रथमं स्वस्थानम् ॥ ७३०, ७३१- ॥
इति शुद्धवराटी
(मु०) अथ शुद्धनट्टामाह-तमेवेति । तमेव षड्ज स्थायिनं विधाय तस्यार्धं द्विस्त्रिर्वा आद्यात् अर्धस्वरमुच्चार्य ग्रहात् तृतीयं कम्पयित्वा विलम्बयेत्। अथ अस्मात्परं द्विश्चतुर्वा ताडयित्वा ग्रहं लाघवेनोच्चार्य ग्रहपूर्वोच्चारणानन्तरं दीर्वी कृते रहे समाप्तौ शुद्धनहायाः प्रथमं स्वस्थानम् ॥ -७३२-७३४-॥
इति शुद्धनमा इति भाषाङ्गानि
Scanned by Gitarth Ganga Research Institute