________________
षष्ठो वाद्याध्यायः तस्मादेत्य ग्रहन्यासे स्वस्थानं प्रथमं भवेत् । रागे प्रथममञ्जर्या द्वितीयोऽस्या ग्रहो जने ॥ ७२६ ॥
इति प्रथममश्वरी स्थायिनोऽर्धात्समारुह्य तृतीयादिचतुःस्वरीम् । कम्पयित्वा विलम्ब्यापि पटतुर्य विधाय च ॥ ७२७ ।। एत्य पञ्चपमेतस्माद् ग्रहान्तमवरुह्य च । ग्रहाध ग्रहपूर्व च गत्वा स्पृष्टा ग्रहं ततः ॥ ७२८ ॥ द्वितीयं कम्पितं कृत्वा तृतीयं स्फुरितं ततः । स्यायिनि न्यस्यते यत्र स्वस्थानं स्यात्तदादिमम् ॥ ७२९ ॥ आदिकामोदिकायाः स्याद् द्वितीयग्रहता जने ।
इत्यादिकामोदी स्थायिनि द्विगुणे पड्जे द्विराहत्य तृतीयकम् ।। ७३० ॥ ततोऽधःस्थितं द्राधितात् परमीषत्संस्पृश्य ततः परं द्राघयित्वा पुनरुच्चार्य मारोहिणा वर्णेन ग्रहपर्यन्तप्राप्तौ प्रथममञ्जर्या: प्रथम स्वस्थानम् ॥ ७२४-७२६ ॥
इति प्रथममखरी (सु०) अथादिकामोदिकामाह-स्थायिन इति । धैवतं स्थायिनं कृत्वा ततस्तृतीयमारभ्य स्वरचतुष्टयमारोहेण गीत्वा षष्ठं स्वरं कम्पितं विलम्बितं च विधाय चतुर्थ गीत्वा पञ्चममेत्य ग्रहपर्यन्तमवरुह्य ग्रहस्वरस्य पूर्वार्ध तत्पूर्व च स्वरं प्राप्य ग्रहस्वरं स्पृष्ट्वा द्वितीयं कम्पितं कृत्वा तृतीयस्फुरणात् इतरं स्थायिनि समाप्तौ आद्यं स्वस्थानम् ॥ ७२७-७२९-॥
___ इत्यादिकामोदिका (सु०) अथ शुद्धवराटीमाह-स्थायिनीति । षड्ज द्विरुचारितं विधाय
Scanned by Gitarth Ganga Research Institute