________________
३७४
संगीतरत्नाकरः पूर्व प्रकम्प्य तस्याध दीर्घाकृत्य ग्रहं व्रजेत् । अथोऽर्धरितौ पूर्वग्रहौ कृत्वा द्वितीयकम् ।। ७२० ॥ पोच्य स्पृष्ट्वा ग्रहं तस्मात्परं प्रोच्य प्रकम्प्य तु । तृतीयं ग्रहपाश्चात्यग्रहौ तूच्चारयेन्मुहुः ॥ ७२१ ॥ ततस्तृतीयमाकम्प्य विलम्ब्य तदधस्तनम् । ईपद्विरम्य स्पृष्ट्वा च द्वितीयं न्यस्यते ग्रहे ।। ७२२ ।। यदा तदाद्यं स्वस्थानं वेलावल्याः प्रकीर्तितम् । तृतीयग्रहता त्वस्या दृश्यते वंशगोचरे ॥ ७२३ ।।
इति वेलावली
पञ्चमं ग्रहमास्यायारोहिणा पञ्चमं ततः । गत्वा विलम्ब्य तं तस्मादधरं द्रुततां नयेत् ।। ७२४ ॥ ततोऽधःस्थं द्रापयित्वा स्पृष्टा च द्राषितात्परम् । तत्परं दीर्घतां नीत्वा पुनः प्रोच्यावरोहिणा ॥ ७२५ ॥
कृत्वा, अन्ते स्थायिनं विलम्बितं गीत्वा, तस्यैव स्थायिनोऽधै कम्पयित्वा, तत्पुनरारोहेण गीत्वा पूर्वस्वरं कम्पयित्वा तस्याध विधाय प्रहमागच्छेत् । ततोऽधोंच्चारितौ ग्रहाधस्तनस्वरौ विधाय द्वितीयं मुक्त्वा ग्रहमल्पं गान्धारादिकमुक्त्वा तृतीयकम्पनानन्तरं ग्रहं तदधस्तनं वा सकृदुच्चार्य ततस्तृतीयस्वरं कम्पयित्वा तदधस्तनं द्वितीयं विलम्बं च गीत्वा ईषद्विरम्य द्वितीयस्पर्शानन्तरं प्रहे समाप्तौ वेलावल्याः प्रथमं स्वस्थानम् ॥ -७१८-७२३ ॥
इति वेलावली
(सु०) अथ प्रथममञ्जरीमाह-पञ्चममिति । पञ्चमं ग्रहस्वरं कृत्वा आरोहेण पञ्चमपर्यन्तं प्राप्य तं पञ्चमं विलम्ब्य तस्मादधःस्थितस्वरं शीघ्रं गीत्वा
Scanned by Gitarth Ganga Research Institute