________________
३८०
संगीतरनाकरः अन्ये तु पञ्चमं कृत्वा स्थायिनं रिं विधाय च । मं प्रकम्प्य स्थिरीभूय पञ्चमे द्विः पमध्यमौ ॥ ७५१ ॥ कृत्वा गमृषभाधे च संस्पृश्याधै पुनव्रजेत् । ततो दीघौं रिमौ कृत्वा ग्रहे चेन्न्यस्यते तदा ॥ ७५२ ।। आधं सालगनट्टायाः स्वस्थानं तद्विदो विदुः ।
इति च्छायानाट्टा मं विधाय ग्रहं तं च द्रुतीकृत्य परं ततः ।। ७५३ ॥ उक्त्वा तुर्य विलम्ब्याथ परमास्पृश्य पश्चमम् । विलम्ब्यातोऽवरोहेण ग्रहमेति यदा तदा ॥ ७५४ ॥ स्वस्थानमादिमं रामकृतेर्वेशे द्वितीयकः । ग्रहश्चिन्धमरामक्रीः सा सिद्धा लोकवत्मनि ॥ ७५५ ॥
____ इति चिन्धमरामक्रीः मुक्त्वा तमेव दीर्घाकृत्य अधःस्थितं किंचित्कम्पयित्वा ग्रहे समाप्तौ छायानट्टायाः प्रथमं स्वस्थानं भवति । एतामिति । अत्र तुशब्दोऽवधारणे भिन्नक्रमश्च । एतां तु लक्ष्यवेदिनः सालगनट्टामित्याहुः ॥ -७४६-७५० ॥ __(सु०) मतान्तरमाह--अन्ये त्विति । स्थायिपञ्चमानन्तरं ऋषभः ततो मध्यमं कम्पयित्वा विलम्ब्य च पञ्चमस्वरे पञ्चममध्यमौ द्विर्गायेत् । ततो गान्धारमृषभस्यार्ध च स्पृष्ट्वा पुन: ऋषभार्धं व्रजेत् । ततः रिमौ ऋषभमध्यमौ दीर्थों कृत्वा आहे न्यस्यते समाप्यते तदाद्यं स्वस्थानमिति ॥ ७५१-७५२ ॥
इति च्छायानट्टा (सु०) अथ चिन्धमरामक्रियमाह-ममिति । मध्यमं स्थायिनं कृत्वा तमेवाचार्य ततो द्वितीयमुक्त्वा चतुर्थं विलम्बन गीत्वा, परस्पर्शानन्तरं तृतीयपञ्चमौ अवरोहेण ग्रहागतौ आद्यं स्वस्थानम् || -७५३-७५५ ॥
इति छिन्धमरामक्री:
Scanned by Gitarth Ganga Research Institute