________________
३६८
संगीतरनाकरः मध्यमं गृहमास्थाय प्राञ्चं पोच्य ततो ग्रहम् । सद्वितीयं कम्पयित्वा तृतीयं सचतुर्थकम् ॥ ६९१ ॥ लघुकृत्य तृतीयं चोचार्याहत्य च तं ततः।। प्राचीनं स्वरमुच्चार्य स्थायिनि न्यस्यते यदा ॥ ६९२ ॥ भवेद्वङ्गालरागस्य स्वस्थानं प्रथमं तदा । आरोही पश्चमान्तः स्यात्स्वस्थानेऽस्य द्वितीयके ।। ६९३ ॥ सप्तमान्तस्तृतीये स्यात्तुयें स्यादष्टमावधि । प्राक्पाग्वदवरोही स्यात्स्वस्थाने तृत्तरोत्तरम् ॥ ६९४ ।। लक्ष्ये तु सर्ववंशस्थो द्वितीयोऽस्य ग्रहो मतः ।
___ इति बङ्गाल: (क०) तत्र बङ्गालरागे-लक्ष्ये तु सर्ववंशस्यो द्वितीयोऽस्य ग्रह इति । षड्जादिषु मध्ययोर्मुद्रितस्वरो भवति । तदपेक्षया द्वितीयऋषभादिरत्र स्थायी भवति । सोऽपि द्वितीयोऽन्तिमरन्ध्रद्वये मुक्ते सति जायत इति पूर्वमेवोक्तम् । उत्तरत्रापि भैरवादौ द्वितीयोऽस्य स्वरः स्थायीत्येवमादिषु मुक्तान्त्यरन्ध्रद्वयस्वरः स्थायी कर्तव्य इति वेदितव्यम् ॥ ६९३-६९४-॥
इति बङ्गाल: (सु०) अथ बङ्गालमाह-मध्यममिति । मध्यमं ग्रहस्वरं विधाय प्राच्यं पूर्वस्वरमुच्चार्य, ततो ग्रहद्वितीयस्वरं कम्पितं गीत्वा, द्वितीयचतुर्थी लघुकृत्य शीघ्रमुच्चार्य तमेव तृतीयं ताडयित्वा पूर्वस्वरमुच्चार्य स्थायिनि समाप्तौ बन्नालरागस्य प्रथम स्वस्थानं भवति । पञ्चमपर्यन्तमारोहणं द्वितीयं स्वस्थानम् । सप्तमपर्यन्तमारोहणं तृतीयं स्वस्थानम् । अष्टमपर्यन्तमारोहणं चतुर्थ स्वस्थानमिति । अवरोहस्तु उत्तरोत्तरे स्वस्थाने पूर्वपूर्वस्वस्थानवत् । लक्ष्ये द्वितीयस्वरो ग्रहः ॥ ६९३-६९४-॥
इति बङ्गाल:
Scanned by Gitarth Ganga Research Institute