________________
षष्ठो वाद्याध्यायः
३६९ धैवतं स्थायिनं कृत्वा प्राञ्चं तं च तृतीयकम् ।। ६९५ ॥ पुनः प्राञ्चं विधायाथ कम्पयित्वा तृतीयकम् । विलम्ब्य चाहतं कृत्वा द्वित्रिद्वारं द्वितीयकम् ।। ६९६ ।। ग्रहे न्यासाद्धैरवस्य स्वस्थानं प्रथमं भवेत् । द्वितीये पञ्चमान्तः स्यादारोहोऽथ तृतीयके ॥ ६९७ ॥ पष्ठान्तः सप्तमान्तो वा चतुर्थे त्वष्टमावधिः । परे परेऽवरोही स्यात्स्वस्थाने पूर्वपूर्ववत् ॥ ६९८ ॥ द्वितीयोऽत्र स्वरः स्थायी सर्ववंशेषु दृश्यते ।
इति भैरवः स्थायिनं द्विगुणं पड्ज कृत्वाध वादयेत्ततः ॥ ६९९ ॥ पूर्व ग्रहं द्वितीयं च तृतीयमथ वादयेत् । अथ द्वितीयमागत्य न्यस्यते स्थायिनि स्वरे ॥ ७०० ॥ यदा वराव्याः स्वस्थानं प्रथमं जायते तदा । इह भैरववत्कार्य स्वस्थानत्रितयं परम् ।। ७०१ ॥ स्वस्थानप्रक्रियैवैप ज्ञेया रागान्तरेष्वपि ।
(सु०) अथ भैरवमाह-धैवतमिति । धैवतं स्थायिनं कृत्वा पूर्वस्थायी तृतीयपूर्वावुच्चार्य तृतीयं कम्पितं गीत्वा द्वितीयस्वरं द्विस्त्रिरुचार्य प्रहे स्वरे समाप्तौ भैरवरागस्य प्रथमं स्वस्थानम् । पञ्चमपर्यन्तमारोहे द्वितीयं स्वस्थानम् । षष्ठपर्यन्तमारोहे तृतीयं स्वस्थानम् । अष्टमपर्यन्तमारोहे चतुर्थ स्वस्थानम् । उत्तरोत्तरस्वरस्थाने पूर्वपूर्ववदारोहणम् ॥ -६९५-६९८- ॥
इति भैरव:
(क०) वराव्याम्-स्थायिनं द्विगुणं पड्जमिति; मध्यमं षड्ज
Scanned by Gitarth Ganga Research Institute