________________
षष्ठो वाद्याध्यायः
स्थायिनं मध्यमं कृत्वा कम्पयित्वा परं स्वरम् ।
तुर्य विलम्ब्य कृत्वा च तृतीयं तं द्रुताहतम् ।। ६८६ ॥ विधाय तं पुनः प्रोच्य ग्रहन्यासेन जायते ।
स्वस्थानं प्रथमं तोड्याः प्रोक्तं मुनिवरैरिति ।। ६८७ ॥ .
प्राक्स्वस्थानवदारुह्य पञ्चमादवरुह्यते । स्थायिस्वरान्तं यत्रादः स्वस्थानं स्यात्तृतीयकम् ॥ ६८८ ॥ प्रादाषष्ठमारोहावरोही च ग्रहावधिः ।
अस्यास्तृतीये स्वस्थाने चतुर्थे त्वष्टावधौ ।। ६८९ ।। आरोहिण्यवरोही स्यात्पूर्ववत्तद्विदां मतः ।
मुद्रितस्तु ग्रहः प्रोक्तो लक्ष्ये स्यालक्ष्मवेदिभिः ।। ६९० ॥ इति तोडी
३६७
( क ० ) इतः परं तोड्यादीनां स्वस्थानानि ग्रन्थत एव सुबोधानि । ६८६-६९० ॥
इति तोडी
( सु० ) अथ तोडीमाह - स्थायिनमिति । मध्यमं गीत्वा तत्परं पञ्चमं कम्पयित्वा चतुर्थं विलम्बितं गीत्वा, तृतीयमुच्चार्य तृतीयं त्वाहतं वेगेन ताडितं कृत्वा तमेव पुनरुच्चार्य ग्रहे समाप्तौ तोडीरागस्य प्रथमं स्वस्थानम् । पूर्वस्य स्थानप्रकारेण आपञ्चमात्तु पञ्चमपर्यन्तमारुह्य स्थायिस्वरपर्यन्तमवरोहणं यत्र अदः इदं द्वितीयं स्वस्थानम् । पूर्ववत् आषष्ठस्वर पर्यन्तमारोहः, ग्रहस्वरपर्यन्तमवरोहश्च तृतीयं स्वस्थानम् । आष्टस्वरपर्यन्तमारोहः, पूर्ववद् ग्रहस्वरपर्यन्तमवरोहश्च चतुर्थ स्वस्थानम् । अस्यास्तु लक्ष्ये मुद्रितस्वर: ग्रहो दृश्यते ॥ ६८६-६९० ॥
इति तोडी
Scanned by Gitarth Ganga Research Institute