________________
३६६
संगीतरत्नाकरः तदा चतुर्थ स्वस्थानमाख्यातं मालवश्रियः । षड्जोऽन्यो वा स्वरो वंशे ग्रहोऽस्या मुद्रितः स्वरः ॥ ६८४ ॥ प्रकल्प्य तस्य षड्जत्वं परेषामृषभादिताम् । लक्ष्मेदं योजयेत्सर्वमित्युक्तं सूरिशाङ्गिणा ॥ ६८५ ।।
इति मालवश्री: मन्येऽपि स्वराः षड्जापेक्षयोन्नेयाः । इममेवाथै ग्रन्थकारः स्वयमेवाहषइनोऽन्यो वेत्यादिना । अत्रापि मध्यमादिवत् मुद्रितस्वर एव स्थायी भवति ॥ ६७७-६८५ ॥
इति मालवश्री: (सु०) अथ मालवश्रिया उत्पत्तिप्रकारमाह-षड्ज इति । षड्जे ग्रहस्वरे कृते सति में मध्यमस्वरमाहत्य, तारं गीत्वा ततः षड्जमुच्चार्य, रिमौ, ऋषभमध्यमौ आहतौ ताडितो, मम् , मध्यममान्दोल्य, पमगान् पञ्चममध्यमगान्धारान् प्रकम्प्य प्रकटं द्विवारं गीत्वा, मं मध्यममान्दोल्य कम्पयित्वा, षड्ज लघु विधाय शीघं गीत्वा, रिमौ, ऋषभमध्यमौ कम्पितौ गीत्वा, षड्जगौ, षड्जगान्धारौ द्वित्रिवारानावर्त्य, स्थायिनि समाप्तौ प्रथमं स्वस्थानं भवति । प्रथमस्वस्थानप्रकारेण पञ्च स्वरान् गीत्वा, धैवतं विलम्ब्य अवरोहेण पूर्व स्वस्थास्नं क्रियते चेत्, तदा द्वितीयं स्वस्थानं भवति । पुनश्च धैवतपर्यन्तं कृत्वा सप्तमं स्वरमान्दोल्य ताडयित्वा च द्वितीयस्य स्वस्थानस्य आरोहणे कृते सति तृतीयं स्वस्थानम् । मं मध्यमेनाहत्य तत्परमृषभं द्विगुणमुच्चारितं कृत्वा, तमेव सं प्रोच्य समुच्चार्य निं निषादमाहत्य पुनरमुं निषादं विलम्ब्य, विलम्बितं गीत्वा तृतीयं स्वस्थानमवरोहेण क्रियते चेत् तदा चतुर्थ स्वस्थानम् । षड्ज इति । षड्जो वा अन्यो वा मुद्रितः स्वर: वंशे ग्रहः स्यात् , तस्य वंश इव षड्जं प्रकल्प्य अन्येषामृषभादित्वं कल्पयित्वा पूर्वोक्तं लक्षणं योजयेत् ॥ ६७७-६८५॥
इति मालवश्री:
Scanned by Gitarth Ganga Research Institute