________________
३६५
षष्ठो वाद्याध्यायः षड्जे ग्रहे ममाहत्य षड्ज कृत्वा हतौ रिमौ । पमान्दोल्य प्रकम्प्यापि पमगान्दिः प्रयुज्य च ।। ६७७ ॥ आन्दोल्य मं प्रकम्प्यापि लघुषड्ज विधाय च । कम्पयित्वा रिमौ द्विवान् वारानावर्त्य षड्नगौ ॥ ६७८ ।। स्थायिन्यासाद्भवेदाधं स्वस्थानं मालवश्रियः । आद्यस्वस्थानविधिना विधाय स्वरपञ्चकम् ।। ६७९ ॥ निं विलम्ब्यावरोही चेत्पूर्वः स्वस्थानगः कृतः । तदा द्वितीयं स्वस्थानमास्थितं रागवेदिभिः ॥ ६८० ॥ कृत्वा द्वितीयं स्वस्थानं धान्तमान्दोल्य सप्तमम् । आइत्य च द्वितीयस्य स्वस्थानस्यावरोहणम् ॥ ६८१॥ कृतं यत्र तृतीयं तत्स्वस्थानमुदितं बुधैः ।
आहत्य मं द्विगुणसं कृत्वा रिं तत्परं ततः ॥ ६८२ ।। तं सं प्रोच्य निमाहत्य विलम्ब्य पुनरप्यमुम् । कृत्वा तृतीयं स्वस्थानावरोही क्रियते यदा ।। ६८३ ॥
ग्रहद्वितीयचतुर्थपञ्चमसप्तमान् गीत्वा, अष्टमं च विलम्ब्य, द्वितीयतृतीयद्वितीयसप्तमपञ्चमचतुर्थद्वितीयगानानन्तरं ग्रहे समाप्तिः चतुर्थ स्वस्थानम् । लोके मध्यमादेः प्रहस्चरो मुद्रितो दृश्यते ॥ -६६९-६७६ ॥
___ इति मध्यमादिः
(क०) अथ मालवश्रियः स्वस्थानानि कथयति-षड्जे ग्रह इत्यादि । षड्जे ग्रहे सतीति । अनेन स्वरान्तरस्यापि लक्ष्यानुसारेण महत्वमभ्युपगन्तव्यमिति गम्यते । अतो यदा षड्जो ग्रहो भवति स्थायी भवति । तदा षड्जापेक्षया यो मो मध्यमः तमाहत्य । एव.
Scanned by Gitarth Ganga Research Institute