________________
३६४
संगीतरनाकरः कृत्वाष्टमं विलम्ब्याय द्वितीयं तत्परं ततः । द्वितीयं सप्तमं कृत्वा पञ्चमं च चतुर्थकम् ॥ ६७५ ॥ द्वितीयं च ग्रहे न्यासः स्वस्थानं तुर्यमिष्यते । दृश्यते मध्यमादेस्तु ग्रहो वंशेषु मुद्रितः ॥ ६७६ ॥
इति मध्यमादिः
गान्धारमित्यर्थः । एतान् कृत्वा, अथ अष्टमं तारस्थितं मध्यममित्यर्थः । पञ्चमं चतुर्यकं द्वितीयं चेति । सनिपानित्यर्थः । ग्रहे मध्यमे न्यास इत्यनेनात्रापि वंशप्रकरणे स्थायिग्रहशब्दयोरेकार्थत्वं द्रष्टव्यम् । एवं स्थायिनि मध्यमे न्यासः कृतश्चेत् , चतुर्थ स्वस्थानमिप्यते । दृश्यते मध्यमादेस्तु ग्रहो वंशेषु मुद्रित इति । वंशेष्विति बहुवचनेन अष्टादशाङ्गुलादिषु तत्तन्मतोक्तलक्षणेषु यस्मिन् वंशे यो मुदितः स्वरो भवति, यथाष्टादशाङ्गुले वंशे सप्तसु स्वररन्ध्रेषु मुद्रितेपु षड्जो जायते स तत्र मुद्रित उच्यते ; कलानिधौ वंशे मन्द्रर्षभो मुद्रितः स्वरः, तथा मनौ वंशे मन्द्रगान्धारो मुद्रित इति । यस्मिन् वंशे मध्यमादिरागः क्रियते तस्मिन् वंशे यो मुद्रितः स्वरः स एव मध्यमादेब्रहो दृश्यत इत्यनेन लक्ष्यत इति गम्यते । उत्तरत्रापि मुद्रितो ग्रह इति यत्र वक्ष्यते तत्रैवं द्रष्टव्यम् ॥ ६६९-६७६ ।।
इति मध्यमादिः __ (सु०) तत्र मध्यमादेर्वादनं कथयति-मध्यममिति । मध्यमस्वरं स्थायिनं मुख्यं गीत्वा ततस्तृतीयस्वरे धैवते कम्पिते सति, द्वितीये पञ्चमे विलम्ब्य गीते स्थायिनि मध्यमे समाप्तिः, इदं मध्यमादिरागस्य प्रथम स्वस्थानम् । तृतीय कम्पयित्वा, चतुर्थपञ्चमचतुर्थद्वितीयान् गीत्वा ग्रहे समाप्तिः द्वितीयं स्वस्थानम् । चतुर्थस्वरमाहत्य ताडिते स्थायिनं गीत्वा तत्परं द्वितीयमुच्चार्य, चतुर्थपञ्चमौ विलम्ब्य षष्ठपञ्चमद्वितीयान् गीत्वा ग्रहे समाप्तिः तृतीयं स्वस्थानम् ।
Scanned by Gitarth Ganga Research Institute