________________
षष्ठो वाद्याध्यायः तुर्यस्वरं द्वितीयं च कृत्वा न्यासो ग्रहे यदा ॥ ६७१ ॥ तदा द्वितीयं स्वस्थानं शादेवेन कीर्तितम् । चतुर्थस्वरमाहत्य स्थायिनं तत्परं ततः ।। ६७२ ।। समुच्चार्य स्वरं तुर्य पञ्चमं तु विलम्ब्य च । षष्ठं च पञ्चमं कृत्वा द्वितीयं च ग्रहे यदा ।। ६७३ ।। न्यासस्तदा तृतीयं स्यात्स्वस्थानमिति तद्विदः । ग्रहद्वितीयतुर्योश्च पञ्चमं सप्तमं ततः ॥ ६७४ ।।
तृतीयस्य निषादस्य कम्पनं कृत्वा, ऊर्ध्वमनन्तरं चतुर्थ तं निषादमेव । ननु एकस्यैव निषादस्य तृतीयत्वं चतुर्थत्वं च कथमिति चेत् , उच्यते--तस्य तृतीयत्वं लक्षणया आश्रितम् । चतुर्थत्वं तु मुख्यमेव । नहि गौणमुख्यव्यवहारयोरेकत्र विरोधो दृष्टः । यथा गङ्गायां घोष इत्यत्र गङ्गाशब्देन तटो लक्ष्यत इति तस्य तटशब्दवाच्यत्वं न हीयते । तद्वदत्रापीति न दोषः । लक्षणवाक्येऽपि लक्षणावृत्त्याश्रयणे संनिहितस्वर इवासंनिहितस्वरेण संसृज्य प्रयोगप्रयोजनं द्रष्टव्यम् । एवं लक्ष्यानुसारेण देश्यां सर्वत्र लक्ष्य विरोधि शास्त्रमन्यथा नेयम् । पञ्चममिति । षड्जमित्यर्थः । ततः षड्जानन्तरं तुर्यस्वरं निषादम् । द्वितीयं पञ्चमस्वरं च कृत्वा वादयित्वा, यदा ग्रहे मध्यमे न्यासः क्रियते, तदा द्वितीयं स्वस्थानं कीर्तितम् । चतुर्थस्वरमाहत्येति । निषादमाहत्य गमकयुक्तं कृत्वा, ततः स्थायिनं मध्यमं तत्परं च समुच्चार्य, तुर्य निषादम् । पञ्चमं तु षड्जं विलम्ब्य च षष्ठमिति । ऋषभस्यात्र विवादित्वात्परं गान्धारमित्यर्थः । पञ्चमं षड्जम् , द्वितीयं पञ्चमस्वरं च कृत्वा ग्रहे मध्यमे न्यासः तदा तृतीयं स्वस्थानं भवति । ग्रहद्वितीयतुर्योश्चेति । मध्यमपञ्चमनिषादानित्यर्थः । ततः पञ्चमं; षड्जमित्यर्थः । सप्तमं;
Scanned by Gitarth Ganga Research Institute