SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ संगीतरनाकरः अधुना मुग्धबोधार्थमुदाहरणमात्रतः ।। ६६८ ॥ वंशे देशीस्थरागाणां केषांचिद्वादनं ब्रुवे । मध्यमं स्थायिनं कृत्वा तृतीये कम्पिते स्वरे ॥ ६६९ ॥ विलम्बिते द्वितीयेऽथ स्थायिनि न्यस्यते यदा । स्वस्थानं प्रथमं प्रोक्तं मध्यमादेस्तदा बुधैः ।। ६७० ॥ तृतीयकम्पनादूर्ध्वं चतुर्थ पञ्चमं तनः । (सु०) अथ वांशिकानां बृन्दमाह-एक इति । एको मुख्यो वांशिकः, चत्वारः तदनुगताः ; एतद्वांशिकवृन्दम् ॥ ६६७- ॥ इति वांशिकवृन्दम् (क०) किंनर्यामिव वंशेऽपि केषांचिद्देशीरागाणां वादनक्रमं दर्शयितुमाह-अधुनेत्यादि ॥ ६६८- ॥ (सु०) अधुनेति । अज्ञपरिज्ञानार्थ देशीरागाणां केषांचित् दृष्टान्तत्वेन वादनं कथयामि ॥ ६६८-॥ (क०) तत्र तावन्मध्यमादेर्वादनक्रमं दर्शयति-मध्यममित्यादि । स्थायिनं कृत्वा; ग्रहं कृत्वा । तृतीय इति; अत्र मध्यमोदाहरणक्रमेण तृतीयो धैवतः, तस्यात्र विवादित्वात् वादने क्रियमाणे रागहानिर्भवत्येव । अतः तं विहाय तदुत्तरो निषादोऽत्र तृतीयत्वेन ग्राह्य इति मन्तव्यम् । यथैवं तथा पूर्वोक्तम् - " असंभवे पूर्वपूर्वस्वरस्य तु परं परम् । क्रमेण स्वरमारोहेत्सर्वरागेविति स्थितिः ॥" (६.३३३) इति । वय॑त्वेनासंभव इति पूर्वमेवोक्तं व्याख्यातं च । तस्मात तृतीये स्वरे निषादे कम्पिते सति द्वितीये पञ्चमे विलम्बिते सति स्थायिनि मध्यमे यदा न्यस्यते तदा मध्यमादेः प्रथमं स्वस्थानं प्रोक्तम् । तृतीयकम्पनादिति । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy